________________
परिशिष्टम् - १ (अ)
४९२/२. परिव्यवेभ्यः क्रीञ्
४२१
[दु० बृ०]
परिव्यवेभ्य उपसर्गेभ्यः परः क्रीञ् रुचादिर्भवति । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । परिसाहचर्यादनव्ययपक्षिवाचकस्य वेर्न ग्रहणम् । तेन वनं बहुवि क्रीणातीत्यत्र न भवति, अनुपसर्गत्वात् ॥ ४९२ । २ ।
[दु० टी०]
परिव्य० 1 परिक्रीणीते, विक्रीणीते, अवक्रीणीते । 'बनं बहुवि क्रीणाति' इति पूर्ववद् व्याख्येयम् | पर्यवसाहचर्याद् वा वेरुपसर्गस्य ग्रहणम् । बहवो वयः पक्षिणो यस्मिन्निति ।। ४९२।२। [वि० प०]
परिव्य० । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । “उभयेषामीकारः" (३ | ४ |४४) इत्यादिना ईकार: । 'बनं बहुवि क्रीणाति' इत्यत्र न भवति अनव्ययेन प्रत्यात्त्तेरयोगादिति उक्तम् । बहवो वयो यस्मिन् वने तद् वनं बहुवि । बहुपक्षिकमित्यर्थः || ४९२।२।
[क० च०]
परिव्य० । पूर्वसूत्रवदत्रापि वृत्तावुदाहृतत्वात् 'परिक्रीणीते' इति नोदाहृतम्, प्रत्यासत्तेरयोगादिति । धातूपसर्गयोरन्तरङ्गसम्बन्ध एवेह प्रत्यासत्तिः । पर्यवयोरुपसर्गयोः साहचर्याद् वेरिह उपसर्गस्यैव ग्रहणम् । न चोपपरिक्रीणाति अवक्रीणन्तमित्यत्र 'अब रक्ष पालने ' (१।२०२ ) इत्यस्य हौ परे अवेति रूपे सति पर्यवयोरपि व्यभिचार इति वाच्यम् । उपरिशब्दे परिशब्दस्य निरर्थकत्वात्, अवेति क्रियापदस्य च लाक्षणिकत्वादिति नियमार्थमिदम् || ४९२।२।
४९२/३. विपराभ्यां जिः
[दु० वृ०]
विपराभ्यामुपसर्गाभ्यां परो जयती रुचादिर्भवति । विजयते, पराजयते । किम् ? वनं बहुवि जयति । सेना परा
जयति । परा
उपसर्गादिति उत्कृष्टेत्यर्थः ॥ ४९२ । ३। [दु० टी०]
विपरा० | विजयते, पराजयते । तृतीयया वा विपराभ्यां जयतिर्विशिष्यते, अन्योऽन्यसाहचर्याद् वा उपसर्गयोर्ग्रहणम् । वनं बहुवि जयति, सेना परा जयति । परा उत्कृष्टा इत्यर्थः ।। ४९२।३।