________________
॥श्रीः॥ परिशिष्टम् - १ (अ) = रुचादिगणः
४९२. कतरि रुचादिङानुबन्येभ्यः [३।२।४२] [दु० वृ०]
रुचादिभ्यो अनुबन्धेभ्यश्च कर्तर्यभिधेये आत्मनेपदानि भवन्ति । रोचते, वर्द्धते । शीङ्-शेते, चक्षिङ् - आचष्टे । रुच इत्यनुदात्तानुबन्धोपलक्षणम् । ऊर्ध्वमादत्ते इत्युदात्तः, तद्विपरीतश्चानुदात्तः । उदात्तानुदात्तयोर्मिश्रश्च समाहारो लोकोपचारात्। तेन रुचप्रकारेभ्योऽपि भवन्ति । आदिग्रहणाच्च - निविशते, परिक्रीणीते ।
४९२११. नेविश् [दु० वृ०]
उपसर्गान्नेः परो विशती रुचादिर्भवति । निविशते गृहं कपोतः। अर्थवत्त्वात् प्रतिपदोक्तत्वात् प्रत्यासन्नत्वाच्च उपसर्गादिति लभ्यते । सर्वत्रैवं बोध्यम् । नेरिति किम् ? विशति, परिविशति । उपसर्गादिति किम् ? मधुनि विशन्ति भ्रमराः ।।४९२।१।
[दु० टी०]
नेर्विश् । कथं मधुनि विशन्ति भृङ्गाः । क्रियायोगितया प्रत्यासत्तेरुपसर्गस्य नेर्ग्रहणमर्थवत्त्वात् प्रतिपदोक्तत्वाच्चेति ।। ४९२।१।
[वि०प०]
नेर्विश् । कथं 'मधुनि विशन्ति भ्रमराः' इत्ययमपि नेः परो विशतिर्वति इति ? नैवम्, क्रियाद्योतकतया प्रत्यासन्नस्य नेरुपसर्गस्यैव ग्रहणम् अर्थवत्त्वात् प्रतिपदोक्तग्रहणाच्चेति । अयं तु नामिनः स्वर इति न्वागमे सति अनर्थको लाक्षणिकश्चेति ॥४९२।१।।
[क० च०]
नेर्विश् । ननु विश्धातोरनुदात्तानुबन्धः क्रियताम्, किमादिग्रहणबलात् पृथग् यत्नेन ? नैवम् । 'प्रविशति, परिविशति' इत्यादावात्मनेपदप्रसङ्गात् । क्रियाद्योतकतयेति पजी। ननु यदि द्योतकत्वेऽपि नेरुपसर्गस्यार्थवत्त्वमुच्यते, तदा सप्तमीसम्बन्धिनो नेः साक्षादेवाधिकरणवाचित्वात् कथमत्र न भवतीत्याह- प्रतिपदोक्तत्वाच्चेति चकारेण धातूपसर्गयोरन्तरङ्गसम्बन्धित्वाद् इत्यपि सूच्यते ।।४९२।१।