Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 487
________________ परिशिष्टम् - १ (अ) ऋद्धस्य क्रमते बुद्धिः, न प्रतिहन्यते इत्यर्थः । क्रमते व्याकरणेऽध्ययनाय, उत्सहते इत्यर्थः । क्रमन्ते स्फीतीभवन्तीत्यर्थः । ' क्रमः' इत्यधिकारोऽनुपसर्गे वेति यावत् ।। ४९२।३३। [वि० प० ] वृत्त्युत्० | वृत्तिरप्रतिबन्धः । उत्साहश्चैतसिको धर्मः । तायनं स्फीतता । ऋद्धस्य क्रमते बुद्धिः, न प्रतिहन्यते इत्यर्थः । अध्ययनाय क्रमते छात्रः । उत्सहते इत्यर्थः । नीतिमति श्रियः क्रमन्ते, स्फीतीभवन्तीत्यर्थः ।। ४९२ । ३३ । ४९२ / ३४ परोपाभ्याम् > ४४१ [दु० वृ०] इह वृत्त्यादयोऽर्था अनुवर्तन्ते । तत्र च पूर्वेणैव सिद्धे नियमार्थनिदम् | उपसर्गाणां मध्ये परोपाभ्यामेव वृत्त्यादिष्वर्थेषु क्रमो रुचादिर्भवति । पराक्रमते, उपक्रमते । न प्रतिहन्यते, उत्सहते, स्फीतीभवतीत्यर्थः । परोपाभ्यामिति किम् ? संक्रामति । वृत्त्यादिष्वेव - पराक्रमति, उपक्रामति ॥ ४९२ । ३४। [दु० टी०] परोपाभ्यामेव वृत्त्यादिष्वर्थेष्विति । पराक्रमते, परोपाभ्याम् । उपसर्गात् उपक्रमते ।। ४९२ । ३४| [वि० प० ] परोपा० । इह वृत्त्यादयस्त्रयोऽर्था अनुवर्तन्ते । तत्र पूर्वेणैव सिद्धे नियमार्थमिदं भवति । उपसर्गाणां मध्ये परोपाभ्यामेव वृत्त्यादिष्वर्थेष्विति । पराक्रमते, उपक्रमते न प्रतिहन्यते, उत्सहते, स्फीतीभवतीति वा इत्यर्थः । परोपाभ्यामिति किम् ? संक्रामति । “क्रमः परस्मै" ( ३ | ६ | ६८) इति दीर्घः । वृत्त्यादिष्वेव - पराक्रमति, उपक्रामति ।। ४९२ । ३४। ४९२/३५. आङो ज्योतिरुद्गमे [दु० वृ०] आङः परः कमो रुचादिर्भवति ज्योतिरुद्गमे । ज्योतिरुद्गमे ज्योतिषां ग्रहनक्षत्रादीनामुद्गम ऊर्ध्वगमनमित्यर्थः । आक्रमते सूर्यः, उदगच्छतीत्यर्थः । ज्योतिरिति किम् ? आक्रामति धूमः । उद्गम इति किम् ? अग्निरिन्धनमाक्रामति, व्याप्नोतीत्यर्थः । कथमेतत् - ' नभः समाक्रामति कृष्णवर्त्मना स्थित्वेकचक्रेण रथेन भास्करः' । अत्रापि व्याप्त्यर्थस्य विवक्षितत्वात् । तथाहि 'नभः' इति कर्मपदं दृश्यते । । ४९२ । ३५ ।

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564