Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 326
________________ ३०० श्रीशिवराजविनिर्मितोफलप्रदाः । कार्य पणफराद्भावि:ज्ञेयमापोक्लिमाद्गतम् ॥१८॥ पृच्छालग्नेषु सर्वेषु लग्नाधिपवलावलात् । समस्तं फलमादेश्यं स्थानदृष्टिप्रभावतः ॥ १९ ॥ इति लग्नादिभावविचारः। अथ ग्रहबलाबलम् । उच्चस्वराशिमित्रस्थः शुभदृष्टियुतोदितः । बली स्यात्पापयुग्दृष्टो नष्टो नीचारिंगोऽफलः ॥ १॥ क्रूरदृष्टो युतो वापि क्रूराक्रान्तो विरश्मिकः । स विनष्टो ग्रहो ज्ञेयो विपरीतस्तु पुष्टिमान् ॥ २ ॥ लग्ननाथे विनष्टे स्याद्विनष्टावयवो नरः। जोवर्णाधिकं नष्टं ब्रूयादिदमशन्तिः ॥३॥ यदि लग्नेश्वरः षष्ठः स्वयमेव रिपुर्भवेत् । रन्धेशो मृत्युकारी स्याद्वादशस्थो व्ययप्रदः ॥ ४॥ भावप्रान्तगतः खेटः परभावफलप्रदः । आसीनोऽन्त्यघटी यावद्विवाहादौ फलप्रदः ॥ ५॥ __ अथ धात्वादिचिन्ता। धातुर्मूलं जीव इत्योजराशौ युग्मे विद्यादेतदेव प्रतीपम् । लने योऽशस्तत्क्र. मागण्यमेवं संक्षेपोऽयं विस्तरात्तत्प्रभेदः ॥१॥ ऊर्ध्वदृष्टया भवेज्जीवो ह्यधोदृष्टया च मूलकम् । समावलोकनाद्धातुं मिश्र मिश्रदृशा वदेत् ॥ २॥ अथ बहुप्रश्ने विशेषः । लग्नादाद्यात्तुरीयात्तु द्वितीया सप्तमात्परा । चतुर्थी दशमाञ्चिन्ता पञ्चम्यादि ततो भवेत् ॥१॥ ततोऽपि पञ्चमात्पश्चाद्रन्ध्राल्लाभाद्यथाक्रमम् । षण्नवान्त्याच्च पृच्छेव पूच्छा द्वादश संस्मृताः ॥२॥ धनादिभावं लग्नं स्यात्तस्मादपि धनादितः । शतं वेदाब्धिसहित प्रश्नानामिह जायते ॥ ३ ॥ भद्रार्धयामकुलिकव्यदीपातेषु वैधृतौ । क्रान्तिसाम्ये संक्रमणे ग्रहणे चेन सिद्धये ॥ ४ ॥ अथ लाभालाभविचारः। लग्नलाभपती लग्ने लाभे वा लग्नलाभपौ । लग्ने लाभाधिपो वा स्याल्लाभे लाभाधिपो भवेत् ॥ १ ॥ एकोऽपि हि यदा योगस्तदा लाभः सुनिश्चितम् । चन्द्रयुक्तो विशेषेण पूर्णमायुश्च यच्छति ॥ २॥ लग्नलाभपयोदृष्टिाभे लाभकरी मता। लाभः सर्वखगैर्दृष्टो लाभः पूर्णो भवेत्तदा ॥ ३ ॥ धनादिसर्वलाभेषु वाच्यमेवं यथा तथा । निष्फलाः कथिता योगा यदि चन्द्रो न पश्यति ॥४॥ तिर्यग्योनौ गते लग्ने द्वितृबीयगतेऽथवा । शुभग्रहेण युक्तश्चेत्पशुलाभस्तदा भवेत् ॥ ५॥ केन्द्रगो यदि लग्नेशः शुभो दृष्टः शुभैरपि । लग्नपो वा त्रिकोण Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401