Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 400
________________ ३७४ श्रीशिवराजविनिर्मितो-ज्योतिर्निबन्धः। * ( अमावास्याव्यतीपातपौर्णमास्यष्टकासु च । विद्वाञ्छ्राद्धमकुर्वाणो नरकं प्रतिपद्यते ॥१५॥ विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक्सुताः । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥१६॥ संग्रहे-जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले। कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ॥१७॥) दस्रद्वये पुष्यचतुष्टये च हस्तत्रये मैत्रचतुष्टये च । सौम्यद्वये च श्रवणत्रये च श्राद्धप्रदाता धनपुत्रवान्स्यात् ।। १८॥ इति सपिण्डयादिश्राद्धप्रकरणम् । इति शूरमहाठश्रीशिवराजविनिर्मिते । ज्योतिर्निबन्धसर्वस्वे तिथ्यादीनां विनिर्णयः ॥१॥ ज्योतिर्निबन्धे न्यूनं यद्वयस्तं च कथितं पुनः । पूरितं तद्यथास्थाने व्यस्तं त्यक्तं च विष्णुना ॥२॥ जातकं स्वरशास्त्रं च प्रश्नाख्यानं यथा तथा । लिखितं ग्रन्थविस्ता(स्त)रभयेनाज्ञानतो न हि ॥ ३॥ इति ज्योतिर्निबन्धः संपूर्णः । श्रीशिवार्पणमस्तु । शुभं भवतु । animun * धनुश्निहितग्रन्यो व. पुस्तके । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 398 399 400 401