Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निबन्धः ।
३७३
पवित्रदमनार्पणे ॥ ८ ॥ हरौ न दमनारोपः स्यान्मधौ विघ्नतो यदि । वैशास्त्रे श्रावणे वाऽपि तत्तिथौ स्यात्तदर्पणम् ॥ ९ ॥ )
इति दमनकार्पणम् ।
अथ पुनर्दहनम् ।
चतुर्दशी तिथिर्नन्दा भद्रा शुक्रारवासरौ । सितेज्ययोरस्तमयं द्वङ्घ्रिभं विषमाङ्घ्रिभम् ॥१॥ शुक्लपक्षं च संत्यज्य पुनर्दहनमुत्तमम् । वसूत्तरार्धतः पञ्चनक्षत्रेषु त्रिजन्मसु ॥ २ ॥ पौष्णब्रह्मर्क्षयोः पौनर्दहनात्कुलनाशनम् । दिनोतरार्धे तत्कर्तुश्चन्द्रताराबलान्विते || ३ || पापग्रहे बलयुते शुक्रे लग्नांशवर्जिते । पुनर्दाहो मया प्रोक्तः श्राद्धकालमथो ब्रुवे || ४ ||
अथ सपिण्डादिश्राद्धप्रकरणम् ।
सपिण्डीकरणं कार्यं वत्सरे वाऽर्धवत्सरे । त्रिमासे वा त्रिपक्षे वा मासि वा द्वादशे वा || १ || ष्वेव कालेष्वेतानि एकोद्दिष्टानि षोडश । कृत्तिकासु च नन्दायां भृगोर्वारे त्रिजन्मसु ॥ २ ॥ पिण्डदानं न कर्तव्यं कुलक्षयकरं यतः । त्रिजन्मसु त्रिपाद्धेषु नन्दायां भृगुवासरे || ३ || धातृपौष्णभयोः श्राद्धं न कर्तव्यं कुलक्षयात् । सकृन्महालये काम्ये न्यूनश्राद्धेऽखिलेषु च ॥ ४ ॥ अतीतविषये चैत्रमेतत्सर्वं विचिन्तयेत् । नभस्ये मासि संप्राप्ते कृष्णपक्षे समागते ॥ ५ ॥ तत्र श्राद्धं प्रकुर्वीत सकृद्वा चेदशक्तिमान् । विशिष्टदिवसे कर्तुश्चन्द्रताराबलान्विते ॥ ६ ॥ नन्दाः स्युस्तिथयो निन्द्या भूतानां शस्त्रघातिनाम् । द्वितीया मध्यमा ज्ञेया तृतीया भरणीयुता ॥ ७ ॥ पूज्या यदि चतुर्थी वा श्रीप्रदा पितृकर्मणि । आनन्दयोगः पञ्चम्यां याम्यर्क्षस्थे निशाकरे ॥ ८ ॥ भोजयेद्यः पितॄंस्तत्र पुत्रपौत्रधनं भवेत् । यशस्करी सप्तमी स्यादमी भोगदायिनी ॥ ९ ॥ श्राद्धकर्तुश्च नवमी सर्वकामफलप्रदा । सूर्ये कन्यागते चन्द्रे रौद्रनक्षत्रगे यदा । सप्तम्यां वा तथाऽष्टम्यां नवम्यां वा तिथौ
ते ॥ १० ॥ योगोऽयं पितृकल्याणः पितॄन्योऽस्मिन्समर्चयेत् । इह संपदमनाति पश्चात्स्वर्गमवाप्नुयात् ॥ ११ ॥ दशम्यां पुष्यनक्षत्रे संयोगोऽमृतसंज्ञकः । अर्चयेद्यः पितॄंस्तत्र नित्यतृप्तास्तु तस्य ते ॥ १२ ॥ सर्वसंपत्प्रदा कर्तुर्द्वादशी तिथिरुत्तमा । त्रयोदशीचतुर्दश्योहनिर्धनकलत्रयोः ॥ १३ ॥ अनन्तपुण्यफलदा गजच्छाया त्रयोदशी । श्राद्धकर्मण्यमावास्या पक्षाफलप्रदा ॥ १४ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 397 398 399 400 401