Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३५६
श्रीशिवराजविनिर्मितोदूषयत्युत्तरां तिथिम् ॥ १॥ नागो द्वादशनाडीभिः सूर्यश्चैव तु सप्तभिः । कामोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ॥ २॥ स्कन्दपुराणे-प्रदोषव्यापिनी ग्राह्या तिथि क्तवते सदा । एकादशीं विना सर्वाः शुक्ले कृष्णे समाः स्मृताः ॥ ३ ॥ भविष्योत्तरपुराणे-मुहूर्तोनदिनं नक्तं प्रवदन्ति मनीषिणः । नक्षत्रदर्शनानक्तमहं मन्ये गणाधिप ॥४॥ प्रदोषव्यापिनी न स्यादिवा नक्तं विधीयते । तिथौ सास्तमये नक्तं सदैवार्कदिने दिवा॥५॥ आत्मनो द्विगुणा छाया मन्दीभवति भास्करे । तन्नक्तं नक्तमित्याहुन नक्तं निशि भोजनम् ॥६॥ एवं ज्ञात्वा ततो विद्वान्सायाह्ने तु भुजिक्रियाम् । कुर्यान्नक्तवती नक्तं फलं भवति निश्चितम् ॥ ७॥ दीपिकायां-नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः स्मृतम् । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते ॥ ८॥ कालादर्श-उदये सोपवासस्य नक्तस्यास्तमये तिथिः। मध्याह्ने दृश्यते या तु सैकमक्ते त्वयाचिते ॥९॥ उपवासे तिथिस्त्याज्या सशल्या फलकाक्षिभिः । तथा विहीनशल्याऽपि वृद्धिं याति यदग्रतः॥१०॥
इति साधारणतिथिनिर्णयः ।
अथ तिथिनियमनवाक्यानि । युग्मानियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥ १ ॥ प्रतिपद्यप्यमावास्या तिथेयुग्मं महाफलम् । एतद्वन्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥ २॥ पक्षतिस्तिलकाशोककरवीरव्रते हिता। सद्वितीया तथा भ्रातृद्वितीया प्रतिपद्युता ॥ ३ ॥ ब्रह्मवैवर्ते-रम्भाख्यां वर्जयित्वा तु तृतीया द्विजसत्तम । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ ४ ॥ चतुर्थीसहिता या तु सा तृतीया फलप्रदा । अवैधव्यकरी स्त्रीणां पुत्रपौत्रप्रदायिनी ॥ ५॥ गणनाथवते ग्राह्या तृतीयासहिता सटर । चतुर्थी त्वन्यदेवस्य व्रते ग्राह्या परान्विता ॥ ६॥ षष्ठीयुक्ता सदा कार्या पश्चमी नागपूजने । स्कन्दषष्ठी तु कर्तव्या पञ्चम्या सहिता बुधैः ॥ ७ ॥ भविष्यपुराणे-- कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥ ८॥ सप्तमी नाष्टमीयुक्ता न सप्तम्या युताऽष्टमी । सर्वेषु व्रतकल्पेषु न दुर्गा दशमीगुता ॥ ९॥ शुक्लपक्षेऽष्टमी चैत्र शुक्लपक्षे चतुर्दशी। पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥ १० ॥ कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा तु कर्तव्या परविद्धा न कर्हिचित् ॥ ११ ॥ अष्टमी नवमीविद्धा नवम्या चाष्टमी तथा । अर्धनारीश्वरं प्राप्य उमामाहेश्वरी तिथिः ॥ १२ ॥
१२. सोमवारस्य ।
Aho! Shrutgyanam

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401