Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३७०
श्रीशिवराजविनिर्मितोअथ चैत्रशुक्लपतिपदि काकपिण्डविधानम् । गर्गसंहितायां-फाल्गुने मासि दर्शस्य मध्यरात्रे पुराहिः । धन्वन्तराणां संवीक्ष्य पञ्चाशत्तरुसंनिधौ ॥ १॥ भूमिं संशोध्य यत्नेन निखनेत्कुद्दलादिभिः । कण्टकास्थिशरावाणि खण्डकानि बहिः क्षिपेत् ॥ २ ॥ प्रसिञ्चेत्तु ततस्तोयैः सरस्यादिभवैरपि । ततः स मार्जयित्वा च धूपयेथूपसंचयैः। आलिप्य चन्दनैर्दिव्यैः पुष्पाणि विकिरेत्ततः ॥३॥ महाफणिमहाभोगदृढाचारकृतालये । प्रसन्ना भव मातस्त्वं कुरु चाद्य जनप्रियम् ॥ ४ ॥ इत्यनेन मन्त्रेण गन्धपुष्पादि निधाय पृथ्वि त्वया धृता लोकेति प्रातःकालविधि पठन्पूर्वाभिमुखो निषण्णो वर्तेत । प्रातरेवारुणोदयवेलायां दथ्योदनपिण्डपञ्चकं सव्यञ्जनं पूर्वादिक्रमेणोत्तरपर्यन्तं निदध्यात् । दधिक्राव्णो अकारिषमिति स्तोकं दधि पिण्डोपरि निधापयेत् । ततो दिक्रमेणेन्द्रयमवरुणकुबेरेभ्यश्चतुरः पिण्डांस्तल्लिङ्गकर्मन्त्रैश्चतुझं समर्पयेत् । नमोन्तमुच्चार्य ततश्च पञ्चमं पिण्डं ब्रह्मणे समर्पयेत् । ततस्तां सपिण्डभूमि प्रणिपत्य धन्वन्तरसप्तकं भूम्यन्तरं संत्रजेत् । तदनन्तरं काकागमनं निरीक्षेत् । यस्मादिग्विभागादागच्छति वायसः कंचि. त्पिण्डं गृह्णाति साशडूं निःशहू वा निर्भयः सन्निति तदवलोकनीयम् । शब्दायमानो वा मौनी ग्रासमात्रं परिगृह्यान्यं काकं पश्यति किंवा न पश्यति यां यां चेष्टां कुरुते तदनुरूपं फलमादिशेत् । तच्चाऽऽह-यतो दिविभागादागच्छति तस्मिन्दिग्विभागे दुर्भिक्षं सूचयति । यदिग्देशस्थं पिण्डमश्नाति तस्मिन्देशे सुभिक्षं सूचयति । अन्यान्समाहृय तैः सह पिण्डमश्नाति तदाऽत्यन्तं सभिक्षं सूचयति । मौनेनात्ति तदा सुभिक्षे सति पुनर्दस्युभयमादिशति । साशङ्क समश्नाति तदा तस्मिन्नेव देशे सुभिक्षं सूचयति स्थाने स्थाने च दुर्भिक्षमादिशति । अपरेण गृहीतमन्नं बलादाहृत्य भक्षयति तदा राजभयमादिशति । तेष्वेव काकेषु विशेषोऽस्ति । शुभ्रकण्ठः काको ब्राह्मणस्तस्य फलं त्रिभिर्मासैः । मयूरपिच्छवर्णाभकण्ठः क्षत्रियस्तस्य फलं षड्भिर्मासैः । शिखाकारं मस्तकं यस्य स वैश्यस्तत्फलं नवभिर्मासैरादेष्टव्यम् । कृष्णकण्ठः काकः शूद्रस्तस्य फलं वर्षेण भवति । पञ्चानां पिण्डानां मध्ये ब्रह्मस्थानगतं पिण्डं गृह्णाति तदा सर्वदेशे सुभिक्षं जायते । यस्य वर्णस्य काको मध्यपिण्डं गृह्णाति तस्यैव वर्णस्य क्षेमं विदधाति । पिण्डं गृहीत्वा यां दिशं गच्छति स्वमाससंख्यया महर्घ विदधाति । तद्दोपशमनाय तत्काल एवं विधानं कार्यम् । पायसं शर्करापूपकारिकाः क्षीरपष्टिकाः। एवमादीनि चान्नानि निक्षिपेत्काकभुक्तये॥५॥ आदिशब्देन
Aho! Shrutgyanam

Page Navigation
1 ... 394 395 396 397 398 399 400 401