Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 383
________________ ज्योतिर्निवन्धः। ३५७ अथ जन्माष्टमीनिर्णयः । सनत्कुमार उवाच-श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप । रोहिणी यदि लायेत जयन्ती नाम सा तिथिः ॥१॥ व्यास:-अर्धरात्रे तु रोहिण्यां यदा कृष्णाष्टमी भवेत्। तस्यामभ्यर्चनं शौरेर्हन्ति पापं त्रिजन्मजम् ॥ २ ॥ विष्णुरहस्ये-प्राजापत्यक्षेसंयुक्ता कृष्णा नभसि चाष्टमी । मुहूर्तमपि लभ्येत सेवोपोष्या महाफला ॥ ३ ॥ व्यासः-जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च । पूर्वविद्धैव कर्तव्या तिथिमान्ते च पारणम् ॥ ४ ॥ रोहिणीसहिता कार्या पूर्वा वा यदि वा परा । रोहिणीसहिता पूर्वा तदन्ते पारणं भवेत् ॥ ५॥ जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते । कृत्वोपवासं तिथ्यन्ते तदा कुर्यात्तु पारणम् ॥६॥ नारद:-कार्या विद्धाऽपि सप्तम्या रोहिणीसहिताऽष्टमी । तत्रोपवासं कुर्वीत तिथिभान्ते च पारणम् ॥ ७ ॥ व्यासः-तिथ्युक्षयोर्यदा छेदो नक्षत्रान्तमथापि वा । अर्धरात्रेऽथवा कुर्यात्पारणं त्वपरेऽहनि ॥८॥ पारणं तिथिभान्ते च कुर्यादेकस्य वा क्षये । अतोऽन्यथा पारणायां व्रतभङ्गमवाप्नुयात्॥९॥ याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणी(ण्यौ)॥१०॥ एतत्संभवाभिप्रायम् । विष्णुरहस्ये-मुहूर्तेनापि संयुक्ता संपूर्णा साऽष्टमी भवेत् । किं पुनर्नवीयुक्ता कुलकोट्याश्च मुक्तिदा ॥ ११ ॥ व्यासः-दिनद्वयेऽप्यर्धरात्रे योगस्तिथिभयोर्यदा । तदा परदिने कार्य जयन्तीव्रतमुत्तमम् ॥ १२ ॥ स्कन्दपुराणे-उदये चाष्टमी किंचिन्नवमी सकला यदि । लभ्यते वुधसंयुक्ता प्राजापत्यसंसंयुता । अपि वर्षशतेनापि लभ्यते वा न वा विभो ॥१३॥ पद्मपुराणे-प्रेतयोनिगणानां तु प्रेतत्वं नाशितं नरैः । यैः कृता श्रावणे मासि त्वष्टमी रोहिणीयुता ॥ १४ ॥ किं पुनर्बुधवारेण सोमेनापि विशेषतः । किं पुनर्नवमीयुक्ता कुलकोट्याश्च मुक्तिदा ॥ १५ ॥ सूर्योदये-सर्वथा सप्तमीयुक्ता संत्याज्या सर्ववैष्णवैः । उपोष्या नवमीयुक्ता तदुक्तं पुष्करे स्फुटम् ॥ १६ ॥ वर्जनीया प्रयत्नेन सप्तमीसंयुताऽष्टमी । सऋक्षाऽपि न कर्तव्या सशल्या सा प्रकीर्तिता ॥ १७ ॥ अत्र निर्णयः-अर्धरात्रे तु योगोऽयं रोहिण्या भवति कचित् । तामेवोपवसेन्नान्यामर्धरात्रोपयोगतः ॥ १८ ॥ अष्टम्यां रोहिणीयोगो मध्यरात्रे दिनद्वये । तदोत्तरैव कर्तव्या न पूर्वेत्येष निर्णयः ॥ १९ ॥ जयन्ती वुधवारेण सोमवारेण वा पुनः । लभ्यते दैवयोगेन तामुपोष्य महाफलम् ॥ २० ॥ Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401