Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 388
________________ ३६२ श्रीशिवराजविनिर्मितोस्युयूंनास्तथैवाभ्यधिकास्तु तासाम् । अर्ध वियोज्यं च तथा प्रयोज्यं हासे च वृद्धौ प्रथमे दिने तत् ॥ १॥ पर्वणो यश्चतुर्थांश आयाः प्रतिपदस्त्रयः । यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥२॥ अपराह्नेऽथवा रात्रौ यदि पर्व समाप्यते । उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ॥ ३ ॥ उपोष्येत्यन्वाधानादिकर्म । त्रिमुहूर्ता द्वितीया चेत्प्रतिपद्यापराह्निकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥ ४॥ पूर्वाह्ने वाऽथ मध्याह्ने यदि पर्व समाप्यते । उपोष्य तत्र पूर्वेद्युस्तदहाग इष्यते ॥ ५॥ पञ्चमी यत्र संपूर्णा द्वितीया क्षयगामिनी । चरुरिष्टिरमावास्या भूते कव्यादिकी क्रिया ॥६॥ यागकालात्तिथि<धषट्कला यदि दृश्यते । पर्व तत्रोत्तरं ग्राह्यं हीने पूर्व प्रकल्पयेत् ॥ ७ ॥ शातातपःयस्मादह्नस्तृतीयेऽह्नि परे चन्द्रोदयो भवेत् । चन्द्रक्षयः स विज्ञेयः श्रौते च श्राद्धकर्मणि ॥ ८॥ संधिश्चेत्संगवादूर्ध्व प्राक् चैवाऽऽवर्तनाद्रवेः । पौर्णमासीति विज्ञेया सद्यःकालविधौ तिथिः ॥९॥ अथ श्राद्धतिथिनिर्णयः । * ( भृगुः-मलमासमृतानां तु यच्छ्राद्धं प्रतिवत्सरम् । मलमासे तु तत्कार्य नान्येषां तु कदाचन ॥१॥ अतो मलमासमृतानां कादाचित्कं प्रत्याब्दिकं मलमासेऽपि(एव) कार्य श्रा(श)द्धमासमृतानां च प्रथमाब्दिकं तत्र कार्य द्वितीयाब्दादिकं तु शुद्धमास इति ।) मत्स्यपुराणे-पितृभ्यश्च तिथेमूलं सुरेभ्यः प्रातरेव च । प्रदत्तो(सं) ब्रह्मणा पूर्व विधिमेनं न लङ्घयेत ॥२॥ याज्ञवल्क्यः-पूर्वाह्ने दैविकं श्राद्धमपराहे तु पार्वणम् । एकोद्दिष्टं तु मध्याह्ने प्रातवृद्धिनिमित्तकम् ॥ ३॥ गर्ग:-अह्नः पञ्चदशो भागो मुहूर्त इति कथ्यते । अष्टमः कुतुपस्तत्र श्राद्धारम्भः प्रशस्यते ॥४॥ श्राद्धकल्पे-श्राद्धकालस्तु सर्वेषां कुतुपात्क्षणपश्चकम् । दर्शश्राद्धे तु साग्नीनां सायाह्नो वाऽप्यसंभवे ॥ ५॥ पितामहः-सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि । द्विजैरनग्निकैः शूद्रैः स्त्रीभिः कार्या कुहूः सदा॥६॥ चन्द्रिकायां-तिथिक्षये सिनीवाली तिथिटद्धौ कुहूः स्मृता । साम्येऽपि च कुहूज्ञैया दर्शश्राद्धादिकर्मसु ॥७॥ दक्षः-अपराहे त्वमा ग्राह्या श्राद्धकर्मणि सर्वदा । तस्मिन्नमा यदा न स्यात्तदा मध्यदिने मता ॥ ८॥ यो यस्य विहितः कालः श्राद्धस्यात्र स्वयंभुवा । तत्कालव्यापिनी या स्यात्सैव ग्राह्या तिथिबुधैः ॥९॥ दिनद्वयेऽपि संपूर्णा स्वकालव्यापिनी भवेत् । तदा पूर्वा पितृश्राद्ध * धनुश्चिह्नितग्रन्थो व. पुस्तकस्थः । १ ख. कालतिथिधष' । घ. कालतिथईवेष । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401