Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निवन्धः।
३४५
लाख्यः॥१॥रुद्रयामले-स्वानुकूलग्रहव्यूहः कर्तव्यो युद्ध कर्मणि । रिपूणां प्रतिकूलस्य कार्यो व्यूहो ग्रहस्य वा ॥ २ ॥ भूपालवल्लभे-बलाकापतिबद्वयूहो बलाकाख्यः कृतोरणे । काकव्यूहः काकसंघो बलाकाव्यूहभञ्जकः ॥३॥ तावुभावपि भज्येते श्येनव्यूहेन निश्चितम् । एको रथोऽग्रे कर्तव्यः पश्चाविरदसप्तकम् ॥ ४ ॥ त्रिंशदश्वाः खड्गिशतं पार्थे कुन्तधरास्तथा । मध्येऽष्टौ रथिनस्त्रिं. शदश्वाः पश्चाद्गजद्वयम् ॥ ५॥ ततः सर्वगतं सर्वं श्येनव्यूहः स उच्यते । अग्रे द्वौ पृष्ठगाश्चान्ये क्रौश्चव्यूहः स उच्यते ॥ ६ ॥ बलाककाको क्रौञ्चेन क्रौञ्चः श्यनेन भज्यते । अग्रे रथद्वयं पश्चाद्गजाः सप्त व्यवस्थिताः ॥७॥ तत्पृष्ठे विंशतिरिभाः पश्चाशद्वाजिवाहकाः । सप्त सप्त रथाः पार्चे गजौ द्वौ द्वौ ततः स्थिती॥८॥ तत्प्रमाणे रथैर्वेदी बहिस्तद्गजाः स्थिताः । मध्ये पदातयो वाहाः पार्श्वयोश्च तुरङ्गमाः॥९॥ विज्ञेयः शकटव्यूहो न भेद्यस्त्रिदशैरपि । अग्रे रयत्रयं पृष्ठे गजाकारो गजबजः ॥ १० ॥ स्यन्दनाः पश्च पश्चैव पार्थकोणचतुष्टये । मध्यं प्रपूरयेदश्चाङ्गुलगजमालिका ॥ ११ ॥ मध्ये खड्गिधनुष्मन्तः पार्थयो रथिनो गजाः । पृष्ठतः सकला सेना सिंहव्यूहः स जायते ॥ १२ ॥ शकटव्यूहकालेन सूचीव्यूहेन भिद्यते । पमव्यूहस्तु सिंहेन सूचीकाकेन भिद्यते ॥ १३ ॥ गजषोडशकं मध्ये वृत्ताकारेण कल्पयेत् । बाह्यतो रथिभिर्वेष्टयं तद्वाह्ये कुन्तधारको(काः)॥१४॥ शरचापधरा बाह्ये खड्गचर्मधरास्ततः। बाह्यतोऽश्वैः समावेष्टय पङ्क्तित्रितयतः क्रमात् ॥ १५॥ पुनःपुनः प्रकुर्वीत यावद्भवति वाहिनी । चक्रव्यूहः स विज्ञेयो दुर्भेयस्त्रिदशैरपि ॥ १६ ॥ अन्तरे रथमेकैकं स्थानपृष्ठेषु कल्पयेत् । तदन्तरे गजान्पश्च नवाश्चान्स्थापयेत्ततः ॥ १७ ॥ ततः पत्ती
पञ्चदश पत्रे पत्रे प्रकल्पयेत् । तन्मध्ये स्यन्दनान्सप्त गजांश्चैव त्रयोदश॥१८॥ एकोनविंशतिहयान्पदातिश्चाष्टविंशतिः । गजैरश्वैः पूरणीया पममध्यस्थकर्णिका ॥ १९ ॥ तन्मध्ये गजमारूढश्चमूपो वाऽथवा नृपः । अन्तरे द्रोणिकायां तु रथद्विरदवाजिनः ॥ २०॥त्रयस्त्रयश्च सर्वत्र त्रयस्त्रिंशत्पदातयः। पद्मव्यूहः स विज्ञेयः पनाकारकृतो यदा ॥ २१ ॥ रथं गज हयं पत्ति मालाकारेण विन्यसेत् । पुनः पुनः श्रेणिबन्धान्मालाव्यूहः स उच्यते ॥ २२ ॥ चतुर्दिक्षु रथौ द्वौ द्वौ तत्पृष्टे द्विरदा दश । चतुर्विंशतिरश्वाश्च त्रिंशत् खड्गधरास्तथा ॥ २३ ॥ शरचापधराश्चैव दश वा खेटधारिणः। तेषां पृष्ठे कुन्तधरा यन्त्रधरास्तथैव च ॥ २४ ॥ वेद्याकाराः पूरणीया गजैरवैः पदातिभिः । अग्रे नृपः स विज्ञेयो व्यूहः पुष्करणीति च ॥२५॥ सर्पाकारं रथेनाश्वैः पूरयेसैनिकैरपि । सर्पव्यूहः स विज्ञेयः
४४
Aho! Shrutgyanam

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401