SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। ३४५ लाख्यः॥१॥रुद्रयामले-स्वानुकूलग्रहव्यूहः कर्तव्यो युद्ध कर्मणि । रिपूणां प्रतिकूलस्य कार्यो व्यूहो ग्रहस्य वा ॥ २ ॥ भूपालवल्लभे-बलाकापतिबद्वयूहो बलाकाख्यः कृतोरणे । काकव्यूहः काकसंघो बलाकाव्यूहभञ्जकः ॥३॥ तावुभावपि भज्येते श्येनव्यूहेन निश्चितम् । एको रथोऽग्रे कर्तव्यः पश्चाविरदसप्तकम् ॥ ४ ॥ त्रिंशदश्वाः खड्गिशतं पार्थे कुन्तधरास्तथा । मध्येऽष्टौ रथिनस्त्रिं. शदश्वाः पश्चाद्गजद्वयम् ॥ ५॥ ततः सर्वगतं सर्वं श्येनव्यूहः स उच्यते । अग्रे द्वौ पृष्ठगाश्चान्ये क्रौश्चव्यूहः स उच्यते ॥ ६ ॥ बलाककाको क्रौञ्चेन क्रौञ्चः श्यनेन भज्यते । अग्रे रथद्वयं पश्चाद्गजाः सप्त व्यवस्थिताः ॥७॥ तत्पृष्ठे विंशतिरिभाः पश्चाशद्वाजिवाहकाः । सप्त सप्त रथाः पार्चे गजौ द्वौ द्वौ ततः स्थिती॥८॥ तत्प्रमाणे रथैर्वेदी बहिस्तद्गजाः स्थिताः । मध्ये पदातयो वाहाः पार्श्वयोश्च तुरङ्गमाः॥९॥ विज्ञेयः शकटव्यूहो न भेद्यस्त्रिदशैरपि । अग्रे रयत्रयं पृष्ठे गजाकारो गजबजः ॥ १० ॥ स्यन्दनाः पश्च पश्चैव पार्थकोणचतुष्टये । मध्यं प्रपूरयेदश्चाङ्गुलगजमालिका ॥ ११ ॥ मध्ये खड्गिधनुष्मन्तः पार्थयो रथिनो गजाः । पृष्ठतः सकला सेना सिंहव्यूहः स जायते ॥ १२ ॥ शकटव्यूहकालेन सूचीव्यूहेन भिद्यते । पमव्यूहस्तु सिंहेन सूचीकाकेन भिद्यते ॥ १३ ॥ गजषोडशकं मध्ये वृत्ताकारेण कल्पयेत् । बाह्यतो रथिभिर्वेष्टयं तद्वाह्ये कुन्तधारको(काः)॥१४॥ शरचापधरा बाह्ये खड्गचर्मधरास्ततः। बाह्यतोऽश्वैः समावेष्टय पङ्क्तित्रितयतः क्रमात् ॥ १५॥ पुनःपुनः प्रकुर्वीत यावद्भवति वाहिनी । चक्रव्यूहः स विज्ञेयो दुर्भेयस्त्रिदशैरपि ॥ १६ ॥ अन्तरे रथमेकैकं स्थानपृष्ठेषु कल्पयेत् । तदन्तरे गजान्पश्च नवाश्चान्स्थापयेत्ततः ॥ १७ ॥ ततः पत्ती पञ्चदश पत्रे पत्रे प्रकल्पयेत् । तन्मध्ये स्यन्दनान्सप्त गजांश्चैव त्रयोदश॥१८॥ एकोनविंशतिहयान्पदातिश्चाष्टविंशतिः । गजैरश्वैः पूरणीया पममध्यस्थकर्णिका ॥ १९ ॥ तन्मध्ये गजमारूढश्चमूपो वाऽथवा नृपः । अन्तरे द्रोणिकायां तु रथद्विरदवाजिनः ॥ २०॥त्रयस्त्रयश्च सर्वत्र त्रयस्त्रिंशत्पदातयः। पद्मव्यूहः स विज्ञेयः पनाकारकृतो यदा ॥ २१ ॥ रथं गज हयं पत्ति मालाकारेण विन्यसेत् । पुनः पुनः श्रेणिबन्धान्मालाव्यूहः स उच्यते ॥ २२ ॥ चतुर्दिक्षु रथौ द्वौ द्वौ तत्पृष्टे द्विरदा दश । चतुर्विंशतिरश्वाश्च त्रिंशत् खड्गधरास्तथा ॥ २३ ॥ शरचापधराश्चैव दश वा खेटधारिणः। तेषां पृष्ठे कुन्तधरा यन्त्रधरास्तथैव च ॥ २४ ॥ वेद्याकाराः पूरणीया गजैरवैः पदातिभिः । अग्रे नृपः स विज्ञेयो व्यूहः पुष्करणीति च ॥२५॥ सर्पाकारं रथेनाश्वैः पूरयेसैनिकैरपि । सर्पव्यूहः स विज्ञेयः ४४ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy