Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३५२
श्रीशिवराजविनिर्मितोवयोन्मानं यतः कालात्तस्माद्यस्य जनिः पुरा । स ज्येष्ठोऽन्यो लयुग्मे नाऽऽधानस्य प्रमाणतः ॥ ४ ॥ इत्यादिवचनैरत्र निश्चयो नैव जायते । महाभागवते प्रोक्तो मया तस्मात्प्रकाश्यते ॥ ५॥ तृतीयस्कन्धे-प्रजापति नीम तयोरकार्षीयः प्राक्स्वदेहाद्यमयोरजायत । तं वे हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमस्त साऽग्रतः ॥६॥ अस्य स्पष्टता सप्तमस्कन्धे-यज्ञान्ते तो दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ७ ।। । अथ जीवात्मनोः को भेद इत्याक्षेपपरिहारः।
चैतन्यांशोऽज्ञता माया जीव इत्यभिधीयते । यथाऽग्न्यंशो ज्वलत्काष्ठम - गार इति भण्यते ॥१॥ अग्निरङ्गारतां हित्वा यथा काष्ठत्वमात्रजेत् । तथा जीववसंत्यागाच्चैतन्यं ब्रह्म केवलम् ॥ २ ॥ चैतन्यं मायया युक्तं जीव इत्यभिधीयते । उपाधिरहितं तच ब्रह्मेति प्रोच्यते बुधैः ॥ ३ ॥ मायाशबलितं चैतन्यं जीवः । निरुपाधिकं चैतन्यं ब्रह्म ।
__अथ रोगस्नानाक्षेपः। स्नानं रोगविमुक्तस्य कल्याणाभ्युदयं विदुः । तत्कथं दोषदुष्टेऽह्नि कथितं पूर्वसूरिभिः ॥ १॥
अथास्योत्तरम् । स्वकर्मणः शुभे काले गर्हिते गर्हितस्य च । सिद्धिः प्रत्यक्षतो नूनं दृश्यते हानिरन्यथा ॥ १ ॥ यस्मिन्काले तु यत्कर्म कीर्तितं तिथिभादितः । शुभं चैवाशुभं मिश्रं तत्तथैव फलायते ॥ २ ॥ ज्योतिःशास्त्रमिदं ब्राह्मं दिव्यं ज्ञानमतीन्द्रियम् । प्रत्यक्षफलदं सिद्धं त्रिकालज्ञानकारणम् ।। ३॥ अस्याऽऽगमप्रमाणस्य शास्त्रस्य फलगौरवम् । जानन्ति मुनयस्तस्मात्तैरुक्तं यत्तु तत्स्फुटम् ॥४॥ अत्र प्रधानं दोषस्य निवृत्तिस्त्वन्यदङ्गकम् । मुख्यं कृत्वोक्ततिथ्यादौ साहचर्यात्परं व्रजेत् ॥ ५॥ यथोत्सवविवाहादौ वस्त्रालंकारधारणम् । वपनं व्रतदीक्षादी रुक्स्नाने शान्तिकं तथा ।। ६॥
अथ रवीन्दोः स्थिरचरत्वविषयक आक्षेपस्तत्परिहारश्च । रविः स्थिरः कथं त्यक्तो गृहीतोऽब्जश्वरः कथम् । गृहारम्भे प्रवेशे च हेतु जानासि चेद्वद ॥१॥ स्थिरत्वं च चरत्वं च न स्तः स्वाभाविके तयोः । युभु. क्तिवशतः प्रोक्ता संज्ञा गोलार्थकोविदः ॥ २ ॥ बृहस्पतिसंहितायां -विशाखाक
Aho! Shrutgyanam

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401