________________
३००
श्रीशिवराजविनिर्मितोफलप्रदाः । कार्य पणफराद्भावि:ज्ञेयमापोक्लिमाद्गतम् ॥१८॥ पृच्छालग्नेषु सर्वेषु लग्नाधिपवलावलात् । समस्तं फलमादेश्यं स्थानदृष्टिप्रभावतः ॥ १९ ॥
इति लग्नादिभावविचारः।
अथ ग्रहबलाबलम् । उच्चस्वराशिमित्रस्थः शुभदृष्टियुतोदितः । बली स्यात्पापयुग्दृष्टो नष्टो नीचारिंगोऽफलः ॥ १॥ क्रूरदृष्टो युतो वापि क्रूराक्रान्तो विरश्मिकः । स विनष्टो ग्रहो ज्ञेयो विपरीतस्तु पुष्टिमान् ॥ २ ॥ लग्ननाथे विनष्टे स्याद्विनष्टावयवो नरः।
जोवर्णाधिकं नष्टं ब्रूयादिदमशन्तिः ॥३॥ यदि लग्नेश्वरः षष्ठः स्वयमेव रिपुर्भवेत् । रन्धेशो मृत्युकारी स्याद्वादशस्थो व्ययप्रदः ॥ ४॥ भावप्रान्तगतः खेटः परभावफलप्रदः । आसीनोऽन्त्यघटी यावद्विवाहादौ फलप्रदः ॥ ५॥
__ अथ धात्वादिचिन्ता। धातुर्मूलं जीव इत्योजराशौ युग्मे विद्यादेतदेव प्रतीपम् । लने योऽशस्तत्क्र. मागण्यमेवं संक्षेपोऽयं विस्तरात्तत्प्रभेदः ॥१॥ ऊर्ध्वदृष्टया भवेज्जीवो ह्यधोदृष्टया च मूलकम् । समावलोकनाद्धातुं मिश्र मिश्रदृशा वदेत् ॥ २॥
अथ बहुप्रश्ने विशेषः । लग्नादाद्यात्तुरीयात्तु द्वितीया सप्तमात्परा । चतुर्थी दशमाञ्चिन्ता पञ्चम्यादि ततो भवेत् ॥१॥ ततोऽपि पञ्चमात्पश्चाद्रन्ध्राल्लाभाद्यथाक्रमम् । षण्नवान्त्याच्च पृच्छेव पूच्छा द्वादश संस्मृताः ॥२॥ धनादिभावं लग्नं स्यात्तस्मादपि धनादितः । शतं वेदाब्धिसहित प्रश्नानामिह जायते ॥ ३ ॥ भद्रार्धयामकुलिकव्यदीपातेषु वैधृतौ । क्रान्तिसाम्ये संक्रमणे ग्रहणे चेन सिद्धये ॥ ४ ॥
अथ लाभालाभविचारः। लग्नलाभपती लग्ने लाभे वा लग्नलाभपौ । लग्ने लाभाधिपो वा स्याल्लाभे लाभाधिपो भवेत् ॥ १ ॥ एकोऽपि हि यदा योगस्तदा लाभः सुनिश्चितम् । चन्द्रयुक्तो विशेषेण पूर्णमायुश्च यच्छति ॥ २॥ लग्नलाभपयोदृष्टिाभे लाभकरी मता। लाभः सर्वखगैर्दृष्टो लाभः पूर्णो भवेत्तदा ॥ ३ ॥ धनादिसर्वलाभेषु वाच्यमेवं यथा तथा । निष्फलाः कथिता योगा यदि चन्द्रो न पश्यति ॥४॥ तिर्यग्योनौ गते लग्ने द्वितृबीयगतेऽथवा । शुभग्रहेण युक्तश्चेत्पशुलाभस्तदा भवेत् ॥ ५॥ केन्द्रगो यदि लग्नेशः शुभो दृष्टः शुभैरपि । लग्नपो वा त्रिकोण
Aho! Shrutgyanam