Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 243
________________ विभंगस्य जीवसमासे हैमीवृचौ. कालद्वारे ॥२३७॥ REARREARS तदनन्तरं मृत्वा देवेषूत्पादसम्भवादिति, परिहारविशुद्धिकचारित्रस्यापि जघन्यतः समयः, उत्कृष्टतस्तु किंचिन्न्यूनरेकोनविंशद्भिव चक्षुरादेव |पैरूना पूर्वकोटिः स्थितिः, उक्तश्च-"परिहारविसुद्धिए णं भंते ! परिहारविसुद्धिएत्ति कालओ केचिरं होई , गोयमा ! जहण्णेणं है। एकं समयं उक्कोसेणं देसूणाए एगूणतीसाए वासहिं ऊणिया पुचकोडि" त्ति, इह जघन्यपदं पूर्ववन्मरणापेक्षयव, उत्कृष्टपदभावना त्वेवम्-इह परिहारविशुद्धिकचारित्रं जघन्यतोऽपि नवमस्य पूर्वस्य तृतीयमाचारवस्तु यावद् दृष्टिवादेऽधीत एव सति प्रतिपद्यते, ततश्च देशोननववर्षपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षपर्यायस्य दृष्टिवादोऽनुज्ञातः, एतावत्प्रवज्यापर्यायादर्वाग् दृष्टिवादानुनायाः समये प्रतिषिद्धत्वात् , ततश्चासौ परिहारविशुद्धिकचारित्रं प्रतिपद्यते, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेनतेनाजन्म परिपालितमिति देशोनकोनत्रिंशद्वर्षोना पूर्वकोटिस्तस्योत्कर्षतः स्थितिकालो भवति, सूक्ष्मसम्परायचारित्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त, यथाख्यातचारित्रस्य तु जघन्यतः समय उत्कृष्टतस्तु देशोना पूर्वकोटिः स्थितिकाल इति प्रागपि वस्तुतो निर्णीतप्रायमिति नेहोक्तम् , केवलज्ञानस्यापि सादिरपर्यवसितः स्थितिकालः प्रतीत एवेति, इह | ज्ञानस्थितिकालाभिधानप्रस्तावेऽपि नोक्त इति गाथार्थः ।। २३२ ॥ अथ विभंगज्ञानादिगुणानां स्थितिकालमाहविभंगस्स भवढिइ चक्खुस्सुदहीण बे महस्साइं । साई अपज्जवसिओ सपज्जवसिओ तिय अचक्खु ॥२३३।। ज्ञानस्य स्थितिकालस्तावदनन्तरमभिहितः, साम्प्रतं तु ज्ञानप्रतिपक्षत्वादज्ञानस्य स्थितिकालोभिधानीयः, तच्चाज्ञानं त्रिविधम् ॥२३७॥ मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च, तत्र मत्यज्ञानं श्रुताज्ञानं चानाद्यपर्यवसितमभव्यानां भव्यानां त्वनादिमिथ्यादृशां तदेवानादि

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308