Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 303
________________ जीवसमासे हैमीवृत्तौ भावद्वारे ॥२९७॥ 3x36x गुणाः, मत्यज्ञानिनः श्रुताज्ञानिनश्च स्वस्थाने तुल्याः पूर्वेभ्योऽनन्तगुणाः । अवधिदर्शनिनः स्तोकाः चक्षुर्दर्शनिनोऽसंख्येयगुणाः केवलदर्शनिनोऽनन्तगुणाः अचक्षुर्दशनिनोऽनन्तगुणाः । सर्वविरताः स्तोकाः देशविरतास्त्वसंख्येयगुणाः नोविरताविरताः पुनरनन्तगुणाः अविरतास्तेभ्योऽनन्तगुणाः । अनाकारोपयुक्ताः स्तोकाः साकारोपयुक्ताः संख्यातगुणाः, दर्शनोपयोगापेक्षया ज्ञानोपयोगकालस्य संख्येयगुणत्वादिति । अनाहारकाः स्तोका आहारकास्त्वसंख्येयगुणाः, अन्तर्मुहूर्त्त समयराशिप्रमाणा हि सूक्ष्मनिगोदाः सर्वदैव विग्रहे वर्तन्ते तेषु चैकविग्रहिकान्मुक्त्वा शेषा अनाहारकाः, अन्ये तु सूक्ष्मनिगोदजीवाः सर्वेऽप्याहारका इति पूर्वेभ्योऽसंख्यातगुणाः । अपर्याप्तेभ्यः पर्याप्ताः संख्येयगुणाः, सामान्यजीवानाश्रित्यैतदवगन्तव्यं, विशेषतस्तु बादरपर्याप्तेभ्यस्तदपर्याप्ताः एव असंख्येयगुणाः । बादरेभ्योऽसंख्येयगुणाः सूक्ष्माः । अभव्याः स्तोकाः नोभव्य अभव्यरूपाः सिद्धास्त्वनन्तगुणा भव्याः पुनरनन्तगुणाः । दिशोऽप्याश्रित्य स्तोका जीवाः पश्चिमायां दिशि, पूर्वस्यां विशेषाधिकाः दक्षिणस्यां विशेषाधिकाः, उत्तरस्यां तु विशेषाधिकाः, बादरजीवानाश्रित्येदमल्पबहुत्वं, सूक्ष्माणां सर्वास्वपि दिक्षु प्रायस्तुल्यत्वाद्, बादरेष्वपि वनस्पतय एव बहवोऽतस्तदनुरोधेनैवाल्पबहुत्वं, ते च बादरवनस्पतयो यत्रोदकं बहु तत्र बहवो भवन्ति, यत्र त्विदमल्पं तत्राल्पा एव भवन्ति, उदकं च बहु समु द्रेष्वेव प्राप्यते, प्राचीप्रतीच्योश्च समुद्राणां मध्येषु चन्द्रसूर्यद्वीपाः सन्ति, यत्र च तेषामवस्थानं तत्रोदकाभावः, तद्भावे च बादरवनस्पत्यभावः, पश्चिमायां दिशि पुनरप्ययं विशेषो यदुत तस्यां षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वेन द्वादश योजनसहस्राणि विष्कम्भेण गौतमद्वीपोऽभ्यधिकः समस्ति, तदवष्टब्धे च प्रदेशे जलाभावेन बादरवनस्पत्य भावादस्यां दिश्यल्पा जीवाः, पूर्वस्यां तु दिशि गौतमद्वीपाभावाद्विशेषाधिकाः, दक्षिणस्यां तु चन्द्रसूर्यद्वीपा भावाद्विशेषाधिकाः, उत्तरस्यां तु दिशि संख्यातयोजनविस्तर योगाद्यपेक्षयाऽल्पव हुत्वं ॥२९७॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308