Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 307
________________ जीवसमास हैमीवृत्ती 230%A4 ॥३०॥ 'जीवा पोग्गल समया दव्व पएसा य पज्जवा चेव । थोवाई अणंताई विसेसमाहिया दुवेऽणता ॥१॥ जीव इति प्रक्षेपगाथा केषुचित् सूत्रादर्शेषु लिखिता दृश्यते, इयं च पूर्वटीकाकृताऽव्याख्याताऽपि विनेयानुग्रहार्थ व्याख्यायते, पुद्गलाद्यल्प तद्यथा-जीवादिपदानां स्तोकादिपदैः सह यथासंख्येन सम्बन्धः, ततः पुद्गलाद्यपेक्षया स्तोकास्तावज्जीवाः, तेभ्यः पूर्वोक्त- बहुत्वं युक्तितः पुद्गलाः सर्वेऽप्यनन्ताः, अनन्तगुणा इत्यर्थः, समयास्तु तेभ्यः प्रागभिहितन्यायादेवानन्तगुणाः, समयेभ्यस्तु सर्वद्रव्याणि विशेषाधिकानि, समया हि सर्वे प्रत्येक द्रव्यत्वेनैव सिद्धान्तेऽभिहिताः, ततोऽन्यानि यानि जीवपुद्गलद्रव्याणि तान्येतदनन्ततमे | भागे वर्तन्ते, यच्च धर्माधर्माकाशास्तिकायलक्षणं द्रव्यत्रयं तेषु सर्वेष्वपि द्रव्येषु समयलक्षणद्रव्यराशी मीलितेषु यो द्रव्यराशिः। सम्पद्यते स केवलसमयद्रव्यराशेर्विशेषाधिको भवतीति सुबोधमेव, सर्वद्रव्येभ्यस्तु तत्प्रदेशा अनन्तगुणाः, एकस्यापि लोकालोकाकाशद्रव्यस्य सर्वद्रव्यानन्तगुणप्रदेशत्वादिति, प्रदेशेभ्यस्तु पर्याया अनन्तगुणाः, एकैकस्यापि प्रदेशस्यानुगतव्यावृत्तानन्तपर्या-2 यात्मकत्वादिति गाथार्थः॥१॥ तदेवमन्या अपि प्रक्षेपगाथाः सिद्धान्तानुसारेण व्याख्येयाः ।। यद् वृत्ताविह वस्तु प्रायस्तत् समयसागराल्लिखितम् । मन्यूतिदोषदुष्ट तथापि शोध्य बुधैः सर्वम् ॥१॥ जीवसमासस्यैतां वृत्तिं कृत्वा मयापि यत् पुण्यम् । जीवादितत्त्वमवगम्य तेन शिवमाप्नुवन्तु जनाः ॥२॥ ॥३०१॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ ३ ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमान् मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥४॥ %AC %

Loading...

Page Navigation
1 ... 305 306 307 308