Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे
धम्माधम्मपएसा तुल्ला परमाणवो अणंतगुणा । समया तओ अणंता तह खपएसा अणंगुणा ॥ २८३ ॥ हैमीवृत्तौ।
है प्रदेशापेक्षधर्माधर्मास्तिकाययोः प्रदेशाः प्रत्येकमसंख्येयत्वात् स्वस्थाने तुल्याः पुद्गलास्तिकायादिप्रदेशभ्यस्तु स्तोका इति स्वयमेव भावद्वारे
याऽल्प-. द्रष्टव्यं, तेभ्यः समस्तपुद्गलास्तिकायप्रदेशरूपाः परमाणवोऽनन्तगुणाः, एकैकधर्माधर्माकाशास्तिकायप्रदेशावगाहेऽनन्तानां परमाणु
हा बहुत्वं ॥२९९॥ व्यणुकत्र्यणुकादिपुद्गलद्रव्यप्रदेशानामवगाढत्वादिति, पुद्गलद्रव्यप्रदेशभ्यस्तु पूर्वोक्तयुक्तेरनन्तगुणाः समयाः, तथा खं-लोकालोक
| जीवाजी18गतमाकाशं तस्य प्रदेशा-निरंशा भागास्तेऽनन्तगुणास्तथैव समये दृष्टत्वादिति गाथार्थः ॥ २८३ ॥ अथैषामेव धर्मास्तिकायाद्यजी-131
वानां च | वप्रदेशानां जीवान मध्ये अधिकृत्याल्पबहुत्वमाह
धम्माधम्मपएसेहिंतो जीवा तओ अणंतगुणा । पोग्गलसमया खंपि य पएसओ तेणऽणतगुणा ॥ २८४॥ ____धर्माधर्मास्तिकायप्रदेशेभ्यस्ततोऽनन्तरं प्रदेशतो द्रव्यतो वाऽनन्तगुणा जीवाः, एकैकस्मिन्नपि निगोदे च धर्माधर्मास्तिकायप्रदेशेभ्यो जीवद्रव्याणामनन्तगुणत्वात् , किं पुनः समग्राणां ?, प्रतिजीवद्रव्यं चासंख्येयत्वात् प्रदेशानां धर्माधर्मप्रदेशेभ्यो यदनन्तगुणत्वं तत् सुबोधमेव, जीवास्तिकायप्रदेशेभ्यस्तु पुद्गलास्तिकायो द्रव्यतोऽप्यनन्तगुणः, किं पुनःप्रदेशतः?, एकैकस्यापि जीवप्रदेश| स्यानन्तानन्तैः कर्मपुद्गलस्कन्धद्रव्यैरावेष्टितपरिवेष्टितत्वादिति, पुद्गलास्तिकायप्रदेशेभ्यस्त्वनन्तगुणाः समया इत्यत्रोक्तैव युक्तिः, तेभ्योऽपि ख-लोकालोकाकाशं प्रदेशतोऽनन्तगुणमिति गाथार्थः।।२८४॥तदेवमभिहित जीवाजीवगतमल्पबहुत्वं, तदभिधाने चावसितमल्पबहुत्वद्वारं, तथा च सति विचारिताः सत्पदप्ररूपणतादिभिरष्टभिरपि द्वारै वसमासाः, एवं सति व्याख्याता 'संतपयपरूवणया दव्वपमाणं चे' त्यादिगाथा, ततः समाप्त जीवसमासाख्यं प्रकरणमिदं, तत्कर्तुश्च प्रयासस्तदध्येतृश्रोतृजनप्रवृत्त्यैव सफलतामा

Page Navigation
1 ... 303 304 305 306 307 308