Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
हैमीवृत्ती
जीवसमासे 3 सादयत्यतस्तदुत्साहनार्थ प्रकरणार्थोपयुक्तानां फलमाह
माप्रकरणफलं बहुभंगादीवाए दिद्वत्थाणं जिणोवइहाणं । धारणपत्तट्ठो पुण जीवसमासस्थउवउत्ती ॥ २८५ ॥ भावद्वारे ___जीवसमासस्य प्रस्तुतप्रकरणस्यार्थः-अभिधेयलक्षणस्तत्र तदध्ययनपरावर्त्तनश्रवणचिन्तनद्वारेणोपयुक्तो जीवसमासार्थोपयुक्तो 2
जन्तुर्भवति, कथंभूत इत्याह- 'धारणपत्तट्ठो' त्ति धारणे-अवधारणे स्थिरतया चेतसि व्यवस्थापने प्राप्तार्थ:-समर्थः, केषामि॥३०॥
त्याह-दृष्टाश्च तेाश्च-जीवादयो दृष्टार्थास्तेषां, व दृष्टार्थानामित्याह-परिकर्मसूत्रादिभेदाद् ‘बहुभंगो' बहुभेदो यो दृष्टिवादस्तस्मिन् बहुभंगदृष्टिवादे, सर्वस्मिन्नागम इत्यर्थः, दृष्टिवादादेवैकादशांगयाः समुद्धरणाद् दृष्टिवादग्रहणेन सर्वस्याप्यागमस्य संग्रहादि|ति, पुनरपि कथंभूतानाम् ?-अर्थतो जिनोपदिष्टानां सूत्रतस्तु गणधरकथितानां, इदमुक्तं भवति-जिनागमदृष्टानामशेषविशेषयु|क्तानां जीवाद्यर्थानामविस्मृत्या धारणे स जीवः समर्थो भवति यो जीवसमासार्थ उपयुक्तो भवति, अतस्तदर्थिना तदुपयोग एव | सर्वदैव यतितव्यमिति गाथार्थः ॥ २८५ ॥ जीवसमासार्थोपयुक्तानामन्यदपि फलमाह- .
एवं जीवाजीवे वित्थरभिहिए समासनिद्दिष्टे । उवउत्तो जो गुणए तस्स मई जायए विउला ॥२८६ ॥
जीवाजीवान् विस्तरतः सिद्धान्तेऽभिहितान्-प्रतिपादितान् अत्र त्वेवं-पूर्वोक्तेन प्रकारेण 'समासतः संक्षेपतो निर्दिष्टान् 'उपयुक्तों' दत्तावधानो जीवः एतद् गुणयेत्-शृणुयात् अनुप्रेक्षेत च, तस्य विपुला-विस्तीर्णा मतिर्जायते, अयमर्थः-आगमे विस्तरोक्तान
॥३०॥ अत्र तु पूर्वोक्तक्रमेण गाथासंक्षेपनिर्दिष्टान् सत्पदप्ररूपणतादिभावयुक्तान् जीवाजीवान् उपयुक्तो यः परिभावयेत्तस्यैतत् कुर्वतोऽभ्यासात् क्रमेणोत्तरोत्तरविशेषानासादयन्ती 'विपुला' विस्तीर्णा मतिर्जायत इति गाथार्थः॥२८६॥ एवं प्रकरणे समर्थिते निगमिते च
RSSICASSAGARIES

Page Navigation
1 ... 304 305 306 307 308