Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 302
________________ जीवसमासे संख्येयगुणाः, तेभ्योऽपि अविरताःसंख्येयगुणाःसास्वादनाःसंख्येयगुणा मिश्राःसंख्येयगुणाः, मिथ्यादृष्टयस्तु गर्भजान् सम्मृर्छजाँश्च नरगती हैमीवृत्ती. मनुष्यानाश्रित्यैतेभ्योऽसंख्येयगुणाः, सास्वादनादीनि हि त्रयोदश गुणस्थानानि गर्भजानामेव मनुष्याणां सम्भवन्ति, ते च संख्याता गुणस्थानाभावद्वारे एवेत्यतस्त्रयोदशसु गुणस्थानेषु यथासम्भवं पूर्वपूर्वापेक्षया उत्तरोत्तरे मनुष्याः सर्वत्र संख्यातगुणा एवोक्ताः, मिथ्यादृष्टिगुणस्थानके ल्पस्वहुत्वं ॥२९६॥ | तु मिथ्यादृष्टयः सर्वमनुष्यानाश्रित्य मिश्रेभ्योऽसंख्यातगुणाः प्रोक्ता इति, तदेवं संक्षेपतो जीवसमासानामल्पबहुत्वं प्रतिपाद्योपसं | जिघृक्षुरतिदेशमाह-' एव' मित्यादि, एवमुक्तानुसारेणान्यदप्यल्पबहुत्वं जीवानां प्राज्ञः सिद्धान्तपरिकर्मितमतिः साधयेत , कैर्हेतु भूतैः ?- प्रागभिहितद्रव्यप्रमाणैः, पृथिव्यादिजीवद्रव्याणां पूर्व प्रमाणद्वारे यान्यभिहितानि संख्याविशेषरूपाणि प्रमाणानि हेतुभू-I | तैरित्यर्थः, इदमुक्तं भवति-प्रागभिहितानि जीवद्रव्यप्रमाणान्यवधार्य येभ्यो येषां यदल्पबहुत्वं सम्भवति तदागमाविरोधेन प्राज्ञः ४ | प्रतिपादयेदिति, तद्वयमेव सिद्धान्ताभिहितं विनेयजनानुग्रहाय किश्चिदुपदर्शयामः-सर्वस्तोकास्तावन्मनोयोगिनो जीवाः, वाग्यो- | गिनोऽसंख्यातगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः । सर्वस्तोकाः पुरुषवेदकाः स्त्रीवेदकाः संख्येयगुणाः अवेद8! कास्त्वनन्तगुणाः नपुंसकवेदकास्तेभ्योऽप्यनन्तगुणाः। स्तोका अकषायिणो मानोपयुक्तास्त्वनन्तगुणाः क्रोधोपयुक्ता विशेषाधिका मायोपयुक्ता विशेषाधिकाः लोभोपयुक्ता विशेषाधिकाः । स्तोकाः शुक्ललेश्याजीवाः पद्मलेश्याः संख्येयगुणाः तेजोलेश्याः संख्येय| गुणाः अलेश्यास्त्वनन्तगुणाः कापोतलेश्यास्तेभ्योऽनन्तगुणाः नीललेश्या विशेषाधिकाः कृष्णलेश्या विशेषाधिकाः। स्तोकाः सम्यग्मिथ्यादृष्टयः सम्यग्दृष्टयोऽनन्तगुणा मिथ्यादृष्टयोऽनन्तगुणाः । मनःपर्यायज्ञानिनः स्तोकास्तेभ्योऽवधिज्ञानिनोऽसंख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च स्वस्थाने तुल्याः पूर्वेभ्यो विशेषाधिकाः, विभंगज्ञानिनोऽसंख्यातगुणाः केवलज्ञानिनोऽनन्त SHRSSC554 RESEARSARAKARSEX 10

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308