Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
H
हैमीवृत्ती.
बहुत्वं
जीवसमासे संख्येयगुणाः, तेभ्यो मिथ्यादृष्टयोऽसंख्येयगुणा इति एतेषां मिथ्यादृष्टिसास्वादनमिश्राविरतलक्षणानां चतुर्णा जीवसमासानां देवनारक
देवनरकगत्योः पृथगल्पबहुत्वं द्रष्टव्यं, शेषाणां देशविरतादिजीवसमासानामत्रासम्भवादिति गाथार्थः ।। २७९ ॥अथ तिर्यग्गतौ तिरश्चा भावद्वारे सम्भावनां जीवसमासानामल्पबहुत्वमाह
गुणाल्प॥२९५|| तिरिएसु देसविरया थोवा सासायणा असंखगुणा । मीसा य संख अजया असंख मिच्छा अणंतगुणा ॥ २८०॥
तिर्यक्षु देशविरताः स्तोकाः, सास्वादनास्तु सति सम्भवे उत्कृष्टपदवर्तिनोऽसंख्येयगुणाः, मिश्रास्तेभ्यः संख्येयगुणाः, अविरतसम्यग्दृष्टयस्त्वेतेभ्योऽसंख्येयगुणाः, मिथ्यादृष्टयस्त्वमीभ्योऽनन्तगुणाः, शेषास्तु प्रमत्तादयो जीवसमासा इह न सम्भवन्त्येवेति गाथार्थः ॥ २८० ।। अथ मनुष्यगतावल्पबहुत्वमाहमणुया संखेज्जगुणा गुणीसु मिच्छा भवे असंखगुणा । एवं अप्पाबहुयं दब्वपमाणेहि साहेज्जा ॥ २८१॥
मनुष्यगतौ तावच्चतुर्दशापि गुणस्थानकानि सम्भवति, अतो मिथ्यादृष्टीनां पृथगुपात्तत्वाच्छेषेषु सास्वादनादिष्वयोगिपर्य-18 न्तेषु त्रयोदशसु गुणिषु-त्रयोदशगुणस्थानवार्तिषु जीवेषु विषये मनुष्याः परस्परतो यथासम्भवं संख्येयगुणाः सर्वत्र वक्तव्याः, | मिथ्यादृष्टिवय॑मनुष्यराशेरेव संख्येयत्वादिति भावः, मिथ्यादृष्टिमनुष्यास्त्वसंख्येयगुणाः, इदमुक्तं भवति-मनुष्यगतौ सति सम्भवे 8 सर्वस्तोकास्तावदयोगिकेवलिनः, तेभ्यस्तु सम्भवमाश्रित्योत्कृष्टपदवर्तिन उपशमकाः संख्येयगुणाः, तेभ्योऽपि क्षपकाः संख्येयगुणाः,18॥२९५॥ &ातेभ्योऽपि सयोगिकेवलिनः संख्येयगुणाः तेभ्योऽप्यप्रमत्तयतयःसंख्येयगुणाः, प्रमत्तयतयस्तेभ्यः संख्येयगुणाः, देशविरतास्त्वेतेभ्यः
BARSASAR

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308