Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे नार्योऽन्यत्र बह्वयः प्रोक्ताः, इह तु सम्मूर्च्छजमनुष्यापेक्षया ताभ्यस्तेषामसंख्येयगुणत्वं, सम्मूर्च्छजमनुष्याणामसंख्यातत्वात् मनुष्यीणां तु संख्यातत्वादित्यदोषः, नरेभ्योऽपि पूर्वोक्तयुक्तितोऽसंख्येयगुणा नारकाः, तेभ्योऽपि तिरश्रयोऽसंख्येयगुणाः, महादण्डके हि नारकेभ्योऽसंख्येयगुणास्तिर्यक् पुरुषाः पठ्यन्ते तद्योषितस्तु तेभ्यस्त्रिगुणात्रिरूपाधिका इति युक्तं तासां नारकापेक्षयाऽसंख्येयगुणत्वम्, एताभ्योऽपि सुराः - सामान्येन देवाः संख्यातगुणाः, महादण्डके तथैव पठितत्वात्, तेभ्योऽपि देव्यः संख्येयगुणाः, देवेभ्यस्तासां द्वात्रिंशद्गुणानां द्वात्रिंशद्रूपाधिकानां च पठितत्वात्, ताभ्योऽपि पूर्वाभिहितयुक्तितोऽनन्तगुणाः सिद्धाः, तेभ्योऽप्युक्तन्यायात्तिर्यंचोऽनन्तगुणा इति गाथार्थः || २७२ || अथ नरकादिगतिष्वेव नारकादीनां स्वस्थान एवाल्पबहुत्वमुपदर्शयन्नाह -
हैमीवृत्तौ भावद्वारे ॥२९१॥
थोवा य तमतमाए कमसो धम्मंतया असंखगुणा । थोवा तिरिक्खपज्जत्तऽसंख तिरिया अनंतगुणा ॥ २७३ ॥
तमस्तमायां सप्तमनरकपृथिव्यां नारकाः शेषनरकपृथ्वीनारकेभ्यः स्तोकाः, तेभ्यः षष्ठपृथ्वीनारकास्त्वसंख्येयगुणाः, तेभ्योऽपि पंचमपृथिव्यामसंख्येयगुणाः, एवं क्रमेण तावनेयं यावद् धर्मान्ताः - रत्नप्रभा पृथ्वीपर्यन्ता नारकाः शर्कराप्रभानारके - भ्यस्तेऽसंख्येयगुणा इति यावद्वक्तव्यमित्यर्थः । उक्तं च नरकगतौ स्वस्थानेऽल्पबहुत्वमथ तिर्यग्गतौ तदाह- स्तोकास्तिर्यग्गतौ तिरश्यः, ताभ्यस्तु पर्याप्तकाः पंचेन्द्रियतिर्यचोऽसंख्येयगुणाः, पर्याप्तपंचेन्द्रियनपुंसकतिरश्चां तिर्यक्स्त्रीभ्योऽसंख्येयगुणत्वेन महादण्डके पठितत्वादिति, आह- भवत्वेवं, किन्तु पर्याप्ततिरश्चां पंचेन्द्रियत्वविशेषणमत्र कुतो लभ्यते ?, सत्यं, तिरश्च्यस्तावत् पंचेद्रिया एव
জললত
नारकाणा
मल्पबहुत्वं
॥२९१॥

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308