Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे हैमीवृत्तौ
भावद्वारे
॥२८९ ॥
नान्तरे पंचदशविधः प्रोक्तो द्रष्टव्यः, तदुक्तम्- ' अविरुद्धसन्निवाइयभेया एमेते पन्नरस 'ति, तदेवमौदयिकादिभावपंचकसंयोगसाध्यत्वात् कार्यादिदर्शनद्वारेण पृथगसाविह नोक्त इत्यलं विस्तरेण, प्रकृतमुच्यते ।। २६९ ।। पूर्वं जीवानां षडपि भावाः सम्भवन्तीति यदुक्तं तद्दर्शितं यत् पुनरुक्तम् -' परिणामुदओ अजीवाणं ' ति तदुपदर्शयन्नाह -
धमाधम्मागासा कालोत्ति य पारिणामिओ भावो । खंधा देस पएसा अणू य परिणाम उदए य ॥ २७० ॥
धर्माधर्माकाशास्तिकायाः कालश्च पारिणामिको भावः, अनादिपारिणामिके भावेऽमी वर्त्तन्त इत्यर्थः, अनादिकालादारभ्य जीवपुद्गलानां गतिस्थित्युपष्टम्भावगाहदानपरिणामेन समयावलिकादिपरिणामेन चैषां परिणतत्वादिति, तथा स्कन्धा-द्वयणुकादयोऽनन्ताणुकस्कन्धपर्यन्ता देशा:- तेषामेव स्थूलावयवाः प्रदेशास्त्वेषामेव सूक्ष्मतरावयवाः अणवस्त्वेकाकिपरमाणव इत्येवं चतुर्विधोऽपि पुद्गलास्तिकायः पारिणामिके औदायिके च भावे वर्त्तते, द्व्यणुकादिस्कन्धानां सादिकालात् तेन २ रूपेण परिणामात् मेर्वादिस्कन्धानां त्वनादिकालात् तेन २ स्वभावेन परिणामादिति, आह-ननु भवत्वेवं सादिपारिणामिकेऽनादिपारिणामिके वा भावे पुद्गलास्तिकायस्य वृत्तिः, औदयिके तु भावे कथमसौ वर्त्तते १ कर्मणां विपाकानुभावो ह्रदयः, स एव तेन वा निर्वृत्त औदयिक इति प्राग् व्याख्यातं न चैतत् सामान्येन पुद्गलास्तिकायस्य सम्भवति, सत्यं, किन्तु वर्णगन्धरसादीनां तु पुद्गलास्तिकायेऽप्यस्त्युदयोऽतः स एव तेन वा निर्वृत्त औदयिक इत्यनया विवक्षयाऽस्याप्यौदयिकभाववृत्तित्वं न विरुध्यते, पूर्वविवक्षा त्विह नापेक्षितैवेत्यदोप इति गाथार्थः ॥ २७० ॥ तदेवं जीवाजीवानां यथासम्भवं दर्शिताः षडपि भावाः, तथा च सति सप्तमं भावद्वारं समाप्तमिति । साम्प्रतं ' संतपयपरूवणया दव्वपमाणं चे ' त्यादिगाथाभिहितमल्पबहुत्वलक्षणमष्टमं द्वारमभिधित्सुराह-
अजीवेषु भावभेदाः
॥२८९॥

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308