Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
सान्निपातिक भेदाः
जीवसमासे
दीनि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य सम्भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्त्वेन तस्योक्तत्वात् , हैमीवृत्तौ.
मोहनीयस्य च केवलिन्यसम्भवात् , तथा क्षायोपशमिकभावोत्रापास्य एव, क्षायोपशमिकज्ञानादेरस्यासम्भवात् , तस्मात् पारिशेभावद्वारे
| प्याद्यथोक्तभावत्रयनिष्पन्न एव पंचमो भंगः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षायोपशमिकपारिणामिकभावत्रयात्मको नार॥२८८॥
| कादिगतिचतुष्टयेऽपि प्राप्यते, तथाहि-ओदयिकी अन्यतरा गतिः क्षायोपशमिकं ज्ञानादिकं पारिणामिकं तु जीवत्वमित्येतद्भावत्रयं सर्वास्वपि गतिषु जीवानां लभ्यते, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, क्वाप्यसम्भवादिति, चतुष्कसंयोगेष्वपि पंचसु मध्ये
औदयिकौपशमिकक्षायोपशमिकपारिणामिकभावचतुष्टयनिर्वर्तितस्तृतीयो भंगश्चतसृष्वपि गतिषु सम्भवति, तत्र भावत्रयभावना | पूर्वोक्तव, औपशमिकं तु सम्यक्त्वं प्रथमसम्यक्त्वलाभादिकाले भावनीयम् , एवमौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावचतुष्टयनि|प्पन्नश्चतुर्थभंगोऽपि सर्वासु गतिषु सम्भवति, तत्रापि भावत्रयभावना सैव, क्षायिकं तु सम्यक्त्वमवगन्तव्यं, शेषास्तु त्रयश्चतु:संयोगाः प्ररूपणामात्रमसम्भवादिति, एकस्तु पंचकसंयोगो यः क्षायिकसम्यग्दृष्टिः सन्नुपशमश्रेणी प्रतिपद्यते तस्य सम्भवति, | नान्यत्र, समुदितभावपंचकस्यास्य तत्रैव भावादिति । तदेवमेको द्विसंयोगभंगको द्वौ द्वौ त्रिकचतुष्कसंयोगभंगकावेकस्तु पंचकसंयोगभंगक इत्येते पद् भंगका अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितं,
सम्भविषु च पट्सु भंगकेषु मध्ये एकत्रिकसंयोगभंगको द्वौ पुनश्चतुष्कसंयोगभंगकावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु लासम्भवन्तीति निर्णीतम् , अतो गतिचतुष्टयभेदात्ते किल द्वादश विवक्ष्यन्ते, शेषास्तु द्विकयोगत्रिकयोगपंचकयोगलक्षणास्त्रयो भंगाः | सिद्धकेवल्युपशान्तमोहानामेव यथाक्रम निश्चिता इत्येकैकस्थानवर्तित्वादेते त्रय एवेत्यन्या विवक्षयाऽयं सान्निपातिको भावः स्था
***RARASSA
॥२८८॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308