Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
हैमीवृत्तौ
औदयिकभावभेदा:
15
%
जीवसमासे गइकायवेयलेसा कसाय अन्नाण अजय अस्सण्णी । मिच्छाहारे उदया जियभवियरियत्तियसहावो ॥२६९॥
'उदय'त्ति एते सर्वेऽपि गत्यादयो जीवपर्यायाः उदयाः-नरकगतिनामादिकर्मोदयजन्यत्वात् , कार्ये कारणोपचाराद् यथेदं भावद्वारे
मे शरीरं पौराणं कर्मेत्यादि, ततश्च सर्वेऽप्यमी गत्यादयो जीवपर्याया औदयिकभाववर्जिन इति तात्पर्य, तथाहि-योऽयं नारकत्व॥२८६॥
तिर्यक्वमनुष्यत्वदेवत्वलक्षणो गतिपर्यायो जीवे प्रादुरस्ति स नरकगत्यादिनामकर्मोदय एव भवति, 'काय'त्ति पृथ्वीकायिद्र कत्वाप्कायिकत्वादिपर्यायोऽपि गतिजातिशरीरप्रत्येकस्थावरादिनामोदये सम्भवति, 'वेय' त्ति स्त्रीवेदादिवेदत्रयं स्त्रीवेदपुरुषवेद| नपुंसकवेदमोहनीयकर्मोदये, लेश्याषट्कं तु येषां मते कषायनिष्यन्दो लेश्यास्तदभिप्रायेण कषायमोहनीयकर्मोदये येषां तु योगपरि|णामो लेश्यास्तन्मतेन तु योगत्रिकजनककर्मोदये, अन्ये तु मन्यन्ते--यथा संसारस्थत्वमसिद्धत्वं वा समुदितकाष्टकोदये भवति तथा लेश्याषट्कमपि, कषायास्तु क्रोधादयः कषायमोहनीयकर्मोदये, अज्ञानमपि विपर्यस्तबोधरूपं मत्यज्ञानादिकं ज्ञानावरणमिध्यात्वमोहनीयकर्मोदये, यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य क्षायोपशमिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्षया, सर्वमपि हि वस्त्ववबोध| मात्रं विपर्यस्तमविपर्यस्तं वा ज्ञानावरणीयकर्मक्षयोपशम एव भवति, यत्पुनस्तस्यैव विपर्यासलक्षणमज्ञानत्वं तज्ज्ञानावरणमि| थ्यात्वमोहनीयकर्मोदय एव सम्पद्यत इत्येकस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं च न विरुद्धथत इति, एवमन्यत्रापि विरोधपरिहारः कर्त्तव्य इति, अयतत्वम्--अविरतत्वं तदप्यप्रत्याख्यानावरणकषायोदये समुपजायते, असंज्ञित्वं तु मनोउपर्याप्तिनामकर्मोदये ज्ञानावरणायुदये च समुदेति, मिथ्यादृष्टित्वं तु मिथ्यात्वमोहनीयोदये, आहारकत्वं तु बुभुक्षावेदनीयाहारपर्याप्त्यादि
AASARAM
%4545
॥२८६॥

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308