Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे हमावृत्त भावद्वारे
क्षायिकादि भावभेदाः
4%A
॥२८४॥
E
भावी अजीवानां विवक्षितौ, न त्वनया युक्त्या सम्भवन्तोऽप्यौपशमिकादय इत्यदोषः, अत एव च तत् केषांचिदेव मतं न सर्वेषां, कैश्चिदकस्यैव पारिणामिकमावस्याजीवेष्वम्युपगतत्वादिति, भवत्वेवं, तथापि प्रस्तुतगाथायां पारिणामिको भावः कर्मणां कस्माबोक्तो, न च परिणामस्तेषां नास्ति, “ स्वयपरिणामिय उदया अट्ठण्हवि हॉति कम्माणं " इत्यादिवचनादन्यत्राभिहितत्वात् | समस्तवस्तुस्तोमव्यापकत्वेन परिणामस्य जैनैरभ्युपगतत्वाच्चेति, साधूक्तं, किन्तु कर्मणामौदयिक एवोत्कटो भावो न पारिणामिका, तस्य न्यग्भूतत्वाद् , उत्कटस्यैव चेह विवक्षितत्वादित्यलं विस्तरेणेति गाथार्थः ॥ २६६ ॥ साम्प्रतं क्षायिकादिभावजन्यान् लब्धि-| विशेषान् विभागतो दर्शयन्नाह__ केवलिय नाणदंसण खाइयसम्मं च चरणदाणाई । नव स्वइया लद्धीओ उवसमिए सम्म चरणं च ॥ २६७ ॥
केवलज्ञानं केवलदर्शनं तथा 'खाइयसम्मं चेत्यादि, क्षायिकसम्यक्त्वं, क्षायिकचारित्रं तच्चान्तरायकर्मक्षयसमुद्भूता दानलब्धिः आदिशब्दालाभभोगोपभोगवीर्यलब्धिपरिग्रहः, ततश्चैताः केवलज्ञानादिका नव लब्धयः क्षायिक्यः-क्षायिकभावसमुद्भूता भवन्ति, तथाहि-केवलज्ञानं केवलदर्शनं च निजनिजावरणक्षय एवोपजायते, क्षायिकसम्यक्त्वमपि दर्शनमोहसप्तकक्षये, क्षायिकचारित्रमपि चारित्रमोहक्षये, क्षायिकदानादिलब्धयस्तु पञ्चापि पञ्चविधान्तरायक्षय एवोपजायन्त इति क्षायिकत्वमेतासामिति, 'उवसमिए सम्मचरणं च ' ति इह सम्यक्त्वचरणयोरनुक्तमप्यौपशमिकत्वविशेषणं व्याख्यानतो द्रष्टव्य, सर्वसम्यक्त्वचारित्रयोरौपशमिकभाववृत्त्ययोगात् , ततश्चौपशमिकसम्यक्त्वमौपशमिकचारित्रं चौपशमिक भाव एव वर्त्तते, न शेषेषु, औपशमिकं हि सम्यक्त्वं
%A5%
AA
C
॥२८४॥

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308