________________
विभंगस्य
जीवसमासे हैमीवृचौ. कालद्वारे
॥२३७॥
REARREARS
तदनन्तरं मृत्वा देवेषूत्पादसम्भवादिति, परिहारविशुद्धिकचारित्रस्यापि जघन्यतः समयः, उत्कृष्टतस्तु किंचिन्न्यूनरेकोनविंशद्भिव
चक्षुरादेव |पैरूना पूर्वकोटिः स्थितिः, उक्तश्च-"परिहारविसुद्धिए णं भंते ! परिहारविसुद्धिएत्ति कालओ केचिरं होई , गोयमा ! जहण्णेणं है। एकं समयं उक्कोसेणं देसूणाए एगूणतीसाए वासहिं ऊणिया पुचकोडि" त्ति, इह जघन्यपदं पूर्ववन्मरणापेक्षयव, उत्कृष्टपदभावना त्वेवम्-इह परिहारविशुद्धिकचारित्रं जघन्यतोऽपि नवमस्य पूर्वस्य तृतीयमाचारवस्तु यावद् दृष्टिवादेऽधीत एव सति प्रतिपद्यते, ततश्च देशोननववर्षपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षपर्यायस्य दृष्टिवादोऽनुज्ञातः, एतावत्प्रवज्यापर्यायादर्वाग् दृष्टिवादानुनायाः समये प्रतिषिद्धत्वात् , ततश्चासौ परिहारविशुद्धिकचारित्रं प्रतिपद्यते, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेनतेनाजन्म परिपालितमिति देशोनकोनत्रिंशद्वर्षोना पूर्वकोटिस्तस्योत्कर्षतः स्थितिकालो भवति, सूक्ष्मसम्परायचारित्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त, यथाख्यातचारित्रस्य तु जघन्यतः समय उत्कृष्टतस्तु देशोना पूर्वकोटिः स्थितिकाल इति प्रागपि वस्तुतो निर्णीतप्रायमिति नेहोक्तम् , केवलज्ञानस्यापि सादिरपर्यवसितः स्थितिकालः प्रतीत एवेति, इह | ज्ञानस्थितिकालाभिधानप्रस्तावेऽपि नोक्त इति गाथार्थः ।। २३२ ॥ अथ विभंगज्ञानादिगुणानां स्थितिकालमाहविभंगस्स भवढिइ चक्खुस्सुदहीण बे महस्साइं । साई अपज्जवसिओ सपज्जवसिओ तिय अचक्खु ॥२३३।। ज्ञानस्य स्थितिकालस्तावदनन्तरमभिहितः, साम्प्रतं तु ज्ञानप्रतिपक्षत्वादज्ञानस्य स्थितिकालोभिधानीयः, तच्चाज्ञानं त्रिविधम्
॥२३७॥ मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च, तत्र मत्यज्ञानं श्रुताज्ञानं चानाद्यपर्यवसितमभव्यानां भव्यानां त्वनादिमिथ्यादृशां तदेवानादि