________________
जीवसमासे हमीवृत्ती कालद्वारे
॥२३८॥
-%AE%AA-RECE
सपर्यवसितं भवति, प्रतिपतितसम्यग्दृष्टीनां पुनर्जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्त्वपापुद्गलपरावर्त इत्येवंरूपं सादिसपर्यवसित ज्ञानदर्शन कालं यावत् प्राप्यते, उपलक्षणव्याख्यानादिदं तावत् स्वयमेव द्रष्टव्यम् , विभङ्गज्ञानस्य तु स्थितिं सूत्रकार एवाह- 'विभंगस्साल स्थितिः भवडिई' ति यत्र तिर्यग्भवे मनुष्यभवे वा स्थितस्य जन्तोर्विभंगज्ञानमुत्पन्नं यत्र च भवे तेन गृहीतेन गच्छति तयोर्भवयोरुत्कृष्टा स्थितिः सा किंचिन्न्यूना विभंगज्ञानस्य नैरन्तर्येणोत्कृष्टाऽवस्थितिकालरूपतया विज्ञेयेति तात्पर्यम् , तथाहि-तिरश्चो मनुष्यस्य वा किंचिद् व्यक्तस्य सतः कस्यचिद् विभंगज्ञानमुत्पन्नम् , तेन चोत्पन्नेन देशोनां पूर्वकोटिमिहासौ जीवितः, गुणाभासेन हि केनचिद् विभंगज्ञानमुपजायते, स च गुणाभासः किंचिदव्यक्तस्यैव भवति, अतः पूर्वकोटर्देशोनता, ततश्चाप्रतिपतितविभंग एवं अधःसप्तमपृथिव्यामुत्पन्नस्त्रयस्त्रिंशत्सागरोपमानि जीवित इत्येवं विभंगज्ञानस्य भवद्वय नरन्तर्येण देशोनपूर्वकोट्याऽधिकानि त्रयस्त्रिंशत् सागरोपमान्युत्कृष्टतः स्थितिकालः सिद्धो भवति, जघन्यतस्तु समयरूपः, स चेत्थभवगन्तव्यः-मिथ्यादृष्टः कस्यचिद्विशुद्धिमासादयतः समयमेकं विभंगज्ञानमुत्पन्न, तदनन्तरं च प्रकर्षमनुभवन्त्यां विशुद्धौ सम्यक्त्वे लब्ध तदेव विभंगज्ञानमवधिरूपतया परिणतमित्येवं जघन्यतः समयप्रमाणोऽस्यावस्थितिकालः, उक्तं च-“विभंगनाणी णं भंतेविभंगनाणित्ति कालओ केच्चिरं होइ, गोयमा! जहण्णेणं एक समयं उक्कोसेण तेत्तीस सागरोवमाई देसृणाए पुवकोडीए अब्भहियाई" ति, तदेवं ज्ञानानामज्ञानानां च प्रोक्तः स्थिति| कालः,अथ चक्षुरादिदर्शनानां तमभिधित्सुराह- 'चक्खुस्सुदहीण बेसहस्साई 'ति चक्षुषः-चक्षुर्दर्शनलब्धिरूपस्य सागरोपम- २३८॥ सहस्रद्वयं नैरन्तर्येणोत्कृष्टोऽवस्थितिकाल इति तावत् सूत्रकारभिप्रायः, एष चासंगत इव लक्ष्यते, समयविसंवादाधुक्तिविरोधाच्च तथाहि-समये तावदुक्तम्-'चक्खुदंसणी णं भंते ! चक्खुदंसणित्ति कालओ केच्चिरं होइ , गोयमा ! जहण्णेणं अंतोमुहुत्तं उकोसेणं