SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 1 - अचक्षुर्दर्शनादि स्थिति काल: 6 RAO सागरावमसहस्सं साइरेग' ति, तदनेन सातिरेकसागरोपमसहस्रस्थितिप्रतिपादकेन सिद्धान्तवचनेन सह एतत् सागरोपमसहस्र द्वयस्थित्याभिधायकं वचनं विसंवदति, अपरं च- पज्जत्तयसयलिन्दिय सहस्समम्भाहियमुहिनामाणं । दुगुणं च तसत्ति भवे' हैमीवृत्तौ इत्यादिप्रागुक्तगाथायामस्मिन्नेव ग्रन्थे तथा सिद्धान्त च सर्वेषामेव द्वीन्द्रियादित्रसानां सातिरेकसागरोपमसहस्रद्वयलक्षणः कालद्वारे | स्थितिकालः प्रतिपादितः स कथं केवलानामेव चक्षुर्दर्शनिनां चतुरिन्द्रियपंचेन्द्रियाणां सम्भवति?, चतुरिन्द्रियाणां हि संख्येयः काल 8. पंचेन्द्रियाणां तु सातिरेकं सागरोपमसहस्रमकं प्रस्तुतग्रन्थे सिद्धान्ते च कायस्थितिरुक्ता, न चैताँश्चतुःपंचेंद्रियान् विहायान्येषां ॥२३९॥ चक्षुर्दर्शन सम्भवति, ततः सिद्धान्तोक्त एव चक्षुर्दर्शनस्य स्थितिकाला युक्त्या संगच्छते, न तु प्रस्तुतग्रन्थोक्तो, युक्तिविरोधादिति, 'अचक्खु 'त्ति, अचक्षुर्दर्शनी जीवः चक्षुर्वजशेषेन्द्रियचतुष्टयदर्शनलब्धिमान् जन्तुरिति तात्पर्यम्, अभव्यमाश्रित्यासौ अकारस्य | लुप्तस्येह दर्शनादनादिरपर्यवसितश्च भवति, अभव्यानां स्पर्शनेन्द्रियमाश्रित्याचक्षुर्दर्शनलब्धेरनादित्वादपर्यवसितत्वाच्चेति, 'सपज्जवसिओत्ति य' त्ति अनादिरित्यनुवर्तमानमेव सम्बध्यते, ततश्च स एवाचक्षुदर्शनी जन्तुर्भव्यमाश्रित्यानादिः सपर्यवसितश्च | भवति, भव्यानां स्पर्शनेन्द्रियमपेक्ष्याचक्षुर्दर्शनलब्धेरनादित्वात् केवलज्ञानोत्पत्तिकाले पर्यवसितत्वाच्चेति, अवधिदर्शनकेवलदर्शनद्रा योस्तु स्थिातिकालो ग्रन्थविस्तरभयादिकारणात् सूत्रकृता नोक्तः, स चागमे इत्थं प्रतिपादितः स्वयमेव द्रष्टव्यः- 'ओहिदसणी णं भंते ! ओहिदंसणित्ति कालओ केच्चिर होइ ? गोयमा ! जहण्णेण एकं समयं उक्कोसेण दोछावट्ठीओ सागरोवमाणं साइरंगाउ 'त्ति, 51 अस्य भावना- इह तियङ्मनुष्याणामन्यतरः कश्चिद्विभंगज्ञानी सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिषु नरकेषत्पन्नः, तत्र चोद्वर्तनाकालासन्नं सम्यक्त्वं प्रतिपद्य पुनः प्रतिपत्य च विभंगज्ञानान्वित एवाविग्रहेण पूर्वकोटीस्थितिषु तिर्यक्षु जातः, स्वायुःपर्यन्ते R - RECE ।२२। ENफर
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy