________________
जीवसमासे हैमीवृत्ती. कालद्वारे
॥२४०॥
चाप्रतिपतितविभंग एवं पुनरपि सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको जातः पुनरप्युद्वर्त्तनाकालप्रत्यासत्तौ सम्यक्त्वं प्रतिपद्य पुनः परित्यज्य चाप्रतिपतितविभंग एवाविग्रहेण पूर्वकोट्यायुष्केषु तिर्यभूत्पन्नः, इत्येवं तावदेका षट्षष्टिः सागरोपमाणां सातिरेका सिद्धा, द्वितीया त्वसावित्थमवगन्तव्या स एव जीवोऽप्रतिपतितविभंगस्तिर्यग्भ्यो मनुष्येष्वविग्रहेणोत्पन्नः, तत्र च सम्यक्त्वं अवधिं च प्राप्य 'दो वारे विजयाइसु गयस्स तिनच्चुए अहव ताई' इत्यादिप्रागुक्तक्रमेणाप्रतिपतितमवधिज्ञानं धारयनवधिदर्शनस्य द्वितीयां सातिरेकषट्षष्टिसागरोपमाणां पूरयति, परतस्तु मुक्तिमवाप्नोतीति, इह च विभंगज्ञानावधिज्ञानयोः परस्परं भेदो दर्शनं तु सामान्यावबोधरूपं द्वयोरपि तुल्यत्वादवधिदर्शनमुच्यते, आगमे तथैवाभ्युपगतत्वादित्यवधिदर्शनस्य सातिरेके द्वे प षष्टी सागरोपमाणां नैरन्तर्येणावस्थितिकालः सम्पन्नो भवति, आह- कस्मात् पुनः सप्तमनरकपृथिव्यां विभंगज्ञानी वाराद्वयं स्वायुः पर्यन्ते सम्यक्त्वं ग्राहितः ?, उच्यते, विभंगज्ञानस्य निरन्तरं परतः स्थित्यभावाद, तथा च प्रागुक्तम्- 'विभंगगाणी जहण्णेण एकं समयं कोण तेत्तीस सागरोवमाई देणार पुव्वकोडीए अब्भहियाई' ति, पुनरप्याह - तिर्यङ्मनुष्येषु तर्हि किमर्थमविग्रहेण विभंगज्ञानी उत्पादितः सत्यं विग्रहेण अनाहारकत्वप्रसङ्गात् तिर्यग्मनुष्येषु च विभंगज्ञानिनोऽनाहारकत्वस्य निषेधात्, तदुक्तम्-विभंगनाणीणं पंचदियतिरिक्खजोणिया मणूसा य आहारगा अणाहारगा?, आहारगा नो अणाहारग" त्ति, तदेवमेतेषां व्याख्यानमुपदर्शितम्, अन्ये त्वेवं व्याचक्षते किं नः सप्तमनरकपृथिवीनिवासिनारकादिपरिकल्पनया ?, सामान्येनैव नारकतिर्यङनरामरभवेषु पर्यटतः खल्ववधिविभंग निरन्तरं सातिरेकसागरोपमपट्षष्टिद्वयं भवतस्ततोऽवधिदर्शनस्य निरन्तरमेतावानवस्थितिकाल इत्यलं विस्तरेण, केवलसामान्यावबोधस्वरूपस्य तु केवलदर्शनस्य सादिरपर्यवसितः स्थितिकाल इति गाथार्थः ॥ २३३ ॥ अथ भव्यत्वादिगुणानां स्थितिकालमाह
अचक्षुर्दशनादि
स्थिति
कालः