________________
जीवसमासे हेमीवृतो.
कालद्वारे
॥२४१॥
भव्वो अणाइ संतो अणाइऽणंतो भवे अभव्वो य सिद्धो य साइऽणतो असंखभागंगुलाहारो ॥ २३४ ॥
भव्यस्तावदनादिः सान्तश्च भवति, इदमुक्तं भवति भव्यस्य जन्तोर्योऽसौ भव्यत्वगुणः सोऽनादिकालात् प्रवृत्तत्वादनादिरुच्यते, सिद्धावस्थायां तु नियमानिवर्त्तिष्यतीति सान्तः प्रतिपाद्यते, सिद्धो हि न भव्यो नाप्यभव्यः तथाहि भविष्यति मुक्तिपर्यायेणेति भव्य उच्यते, न भविष्यति मुक्तिपर्यायेण कदाचिदपीति चाभव्यो व्यपदिश्यते, सिद्धस्य चैतद् द्वितयमपि नास्ति, मुक्तिपर्यायस्य तेनानुभूयमानत्वात् तस्माद्भव्यत्वस्य सिद्धावस्थायां निवृत्तत्वात् सान्तत्वमवसेयम्, अभव्यस्त्वनाद्यनन्तः अनादिकालात् प्रवृत्तत्वादनादि तस्याभव्यत्वं, मुक्तिपर्यायस्य च कदाचिदप्यप्राप्तेस्तस्य तदनन्तमित्यर्थः, 'सिद्धो य साइऽणतो 'ति सिद्धस्य सिद्धत्वं विशुद्धज्ञानदर्शनचारित्रानुष्ठानानन्तरभावित्वात् सादि भवति, लब्धस्य च कदाचिदपि प्रतिपाताभावादनन्तमितिभावः, आहारकत्वगुणस्य स्थितिकालमाह – 'असंखभागगुलाहारो' ति, आहारको जीवस्तद्भावेन निरन्तरमंगुलासङ्घयेय भागक्षेत्रप्रमाणं कालं यावदवतिष्ठते, इदमुक्तं भवति -' अंगुलअसंखभागो ओसप्पिणिओ असंखेज्जा' इति वचनादंगुला संख्येय भागप्रमाणे क्षेत्रेऽसंख्येया उत्सर्पिण्यो भवन्ति, ततश्वाहारकः प्राणी निरन्तरमाहारकपुद्गलान् गृह्णानः कश्चिज्जघन्यतस्त्रिसमयोनक्षुल्लकभवग्रहणं यावत् प्राप्यते इत्येतत् सूत्रे ऽनुपात्तमपि स्वयमेव द्रष्टव्यम्, उत्कृष्टतस्त्वसङ्ख्येया उत्सर्पिण्यवसर्पिणीर्यावन्निरन्तरमाहारको लभ्यत इत्येत सूत्रे ऽप्यभिहितमिति, तत्र जघन्यपदमित्थं भावनीयम - कश्चिदेकेन्द्रियादिर्जीवो मृतः पूर्वाभिहितप्रकारेण च विग्रहे समयत्रयमनाहारको भूत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नः, तत्र च तावन्तं कालं निरन्तरमाहारको भूत्वा मृतः पुनरपि विग्रहेऽनाहारको जात
भव्याभव्य सिद्ध
स्थिति कालः
॥२४१॥