SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ जीवसमा से हैमीवृत्तौ . कालद्वारे ॥२३६॥ मतिश्रुतावधिज्ञानानि नैरन्तर्येणोत्कृष्टतः सातिरेकानि षट्षष्टिः सागरोपमानि प्राप्यन्ते, तथाहि अत्रोत्पन्नमतिश्रुतावधिज्ञानः कश्विदेशोनां पूर्वकोटिं जीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिष्वनुत्तरविमानेषूत्पन्नः, ततः पुनरत्रागतो नरजन्मन्यप्रतिपतितप्रस्तुतज्ञानत्रयः पूर्वकोटिं जीवित्वा तावस्थितिष्येवानुत्तरविमानदेवेषूत्पन्नः पुनरप्रतिपतितप्रकृतज्ञानत्रयो मनुष्येष्वागत इत्येवं वारात्रयं मनुष्यभवायुष्केनाधिकानि षट्षष्टिः सागरोपमान्यधिकृतज्ञानत्रयमुत्कृष्टोऽवाप्यते, अथवा स एव मनुष्योऽप्रतिपतितानुत्क्रान्तज्ञानत्रयो द्वाविंशतिसागरोपमस्थितिष्वच्युतदेवेष्वनेनैव क्रमेण वारात्रयमुत्पाद्येत इत्येवमपि प्रस्तुतः स्थितिकालो लभ्यते, तदुक्तम्- 'दो वारे विजयाइसु गयस्स तिष्णच्चुए अहव ताई । अरेंगे नरभवियं नाणाजीवाण सम्बद्धं ॥ १ ॥ " अयं चोत्कृष्टोऽमीषां स्थितिकालः सूत्रेऽभिहितः, जघन्यतस्तु मतिश्रुतज्ञानयोरन्तर्मुहूर्त्त अवधिज्ञानस्य तु समयः, कथमिति चेदुच्यते, तिर्यङ् मनुष्यो वा विभङ्गज्ञानी कश्चित् सम्यक्त्वं प्रतिपद्यते, तस्य च तद्विभंगज्ञानं प्रथमं समयमेकमवधिरूपतां प्रतिपद्यते, ततोऽवधिज्ञानावरणोदयान्मूलत एव यदा प्रतिपतति तदाऽवधिज्ञानं जघन्यतः समयमेकमवाप्यत इति उक्तञ्च - ' मइनाणी जहण्णेणं अंतो मुहुतं, एवं सुयनाणीवि, ओहीनाणी जहण्णेणं एवं समयं ति, ऊणा य पुव्वकोडी 'त्यादि, मनःपर्यायज्ञानस्य किश्चिन्न्यूनवर्षनवकेन न्यूना पूर्वकोटिरुत्कृष्टा स्थितिः, चारित्रिण एव मनःपर्यायज्ञानं भवति, चारित्रं च गर्भकालादारभ्य किञ्चिन्यूनवर्षनवक एवातिक्रान्ते प्रायः सम्पद्यते, अत एतावता न्यूना पूर्वकोटिः, जघन्यतस्त्विदमेकमेव समयमवाप्यते समुत्पन्नमनःपर्यायज्ञानस्याप्रमत्तसंयतस्य समयादूर्ध्वं मरणसम्भवेन देवेषूत्पादात् तेषु च मनःपर्यायज्ञानस्याभावादिति, सामायिकच्छेदोपस्थाप| नीये अपि चारित्रे, अतोऽनयोरप्येतावत्यैव न्यूना पूर्वकोटिः प्रत्येकमुत्कृष्टा स्थितिः, जघन्यतोऽनयोरपि प्रत्येकं समयमानैव स्थितिरवसेया, मत्यादिज्ञानानां चारित्राणां च स्थितिः ॥२३६॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy