SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ - - हैमीवृत्ती टू आह-यद्येवमनया नीत्या क्रोधाधुपयोगोऽपि जघन्यपदे समयप्रमाणः कस्मान्न लभ्यते ?, सत्यं, किन्तु श्रेणिमस्तकात् प्रतिपततोलेश्यादेः जीवसमासे यदा क्रोधादय उदयमागच्छन्ति तदोदयप्राप्तकषायादपरेऽपि कषायाः प्रदेशोदयन युगपदेव वेद्यन्ते, अतो लोभवत् केवलः | मत्यादेश्व क्रोधाद्युदयो न लभ्यते इति वृद्धा व्याचक्षत, तत्त्वं तु केवलिनो विदन्तीति, 'लेसा य'त्ति लेश्यानामपि कृष्णनलिादीनां स्थितिः कालद्वारे पण्णां तियङ्मनुष्येषु द्रव्यलेश्या भावलेश्यां चाश्रित्य जघन्यत उत्कृष्टतश्चान्तर्मुहर्त स्थितिः, देवनारकयोस्तु भावलेश्यामेवाधिकृत्य ॥२३५॥ बघन्यत उत्कृष्टतश्चान्तर्मुहूर्त स्थितिः, द्रव्यलेश्यानां तर्हि देवनारकयोः कियती स्थितिरित्याह-'सुरनारएसु ये' त्यादि, सुरेषु यथासम्भवं तिसृणां कृष्णाद्यशुभलेश्यानां या यस्य देवस्य नारकस्य वाऽऽत्मीया भवस्थितिरुक्ता तत्प्रमाणैव स्थितिरवगन्तव्या, तत्र सप्तमपृथ्वीनारकाणामुत्कृष्टतः कृष्णलेश्या त्रयस्त्रिंशत्सागरोपमानि प्राप्यते, नलिलेश्या तूत्कृष्टतः पञ्चमपृथिव्यामाद्यप्रस्तटे पल्योपमासंख्ययभागाधिकानि दश सागरोपमान्यवाप्यते, कापोतलेश्या तूकपतस्तृतीयपृथिव्यामाद्यप्रस्तटे पल्योपमासंख्येयभागाभ्यधिकानि त्रीणि सागरोपमानि लभ्यते, तैजसी पुनरुत्कृष्टत ईशानदेवलोके पल्योपमासंख्येयभागाधिकं सागरोपमदयमवाप्यते, पद्मलेश्या तूत्कृष्टतो ब्रह्मलोके दश सागरोपमानि शुक्ललेश्या पुनरुत्कृष्टतोऽनुत्तरविमानेषु त्रयस्त्रिंशत्सागरोपमानि प्राप्यते, कृष्णनीलकापोतलेश्या भवनपतिव्यन्तरेषु देवेष्वपि सम्भवन्ति परमुत्कृष्टस्थितिप्रदिपादनार्थ नरकेष्वेव भाविता इति गाथार्थः ॥ २३१ ॥ अथ मतिज्ञानादिगुणानां स्थितिमाह ॥२३५॥ छावहिउयहिनामा साहिया मइसुओहिनाणाणं । ऊणा य पुवकोडी मणसमइयछेयपरिहारे ॥ २३२ ।। ॐAAAA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy