Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
नरकेषत्पादः मनुष्येषुच
| पाटकाः, तवैकस्मिन् पाटके जघन्यतः समयनोत्कृष्टतस्तु चतुर्विशतिमुहूरतिक्रान्तैः कापि योषिदवश्यमेव पुत्र प्रसूते, द्वितीयहैमीवृत्ती. पाटके तु सप्ताभदिवसैः तृतीयपाटके तु पक्षण एवं यावत् सप्तमे पाटके जघन्यतः समयेनोत्कृष्टतस्तु षड्भिर्मासैरतिक्रान्तैः कापि अंतरद्वार ट्रयोषित्रियमेन तनयं प्रसूते, एवं च सति यद्येकस्मिन् पाटके उत्कृष्टा स्थितिर्लगति तदाऽन्यस्मिन् जघन्यस्थितिक्रमेऽप्युत्पद्यते
| पुनरन्यस्मिस्तु मध्यमायां स्थितो जायते तनय इत्येवं तावद्यावत् समस्तपाटकापेक्षया जघन्यतः समयेनोत्कृष्टतस्तु द्वादशभिर्मुहू॥२६॥
भरवश्यमेव काचिद्योषित् प्रसूते बालकम्, एवमिहापि भावनीयम्, न च विशेषेष्वविद्यमान समुदाये न भवति, तंत्वादौ प्रत्येकमदृष्टस्याMपि पटादेस्तत्समुदाये दर्शनादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थान्तरगम्यत्वात्तस्येति, तिर्यमनुष्यगतिद्वयमाधिकृत्याह
'चउवीस मुहुत्त सण्णियरे' ति सामान्येन तियर्गतौ शेषगतिकानामुत्पद्यमानानां जीवानामुत्पादस्य जघन्यतः समय उत्कृष्ट| तस्तु द्वादशमुहूर्तप्रमाणमन्तरनवगन्तव्यम् , एवं मनुष्यगतावपि, उक्तञ्च-" तिरियगई णं भंते ! केवइयं कालं विरहिया उववाए| णं पण्णत्ता, गोयमा जहण्णेणं एक समयं उकोसेणं बारस मुहुत्ता, एवं मणुयगईवि" ति, विशेषचिन्तायां तु तिर्यग्गतौ संज्ञिनो
गर्भजा इतरे चासंज्ञिनः सम्मूर्च्छजास्तावत् पंचेन्द्रिया भवन्ति, मनुष्यगतावपि संन्जिनोः गर्भजा इतरे च-सज्ञिनः-असम्मूछेजा | मनुष्या भवन्ति, तत्र गर्भजपंचेन्द्रियतिर्यक्षु गर्भजमनुष्येषु चान्यत आगत्योत्पद्यमानानां जन्तूनामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ताः प्रत्येकमन्तरमवसेयम्, सम्मूछेजपंचेन्द्रियतिर्यक्षु जघन्यतः समय उत्कृष्टतोऽन्तर्मुहूर्तमन्तरम्, सम्मूछेजमनुप्येषु त्वन्तरं जघन्यतः समय उत्कृष्टतस्तु चतुर्विशतिर्मुहर्ताः, एतदेव च सूत्रे साक्षादुक्तम् , शेषं तु सूचितत्वादस्माभिरेव दर्शितमवगन्तव्यम् , यत्र च यावानुत्पादस्यैष विरहकाल उक्तस्तत्रोदनाया अपि तावानेव विरहकालो बोद्धव्यः, सिद्धान्ते तथैव प्रति
॥२६॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308