Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 272
________________ जीव समासे हैमवृत्त अंतरद्वारं ॥२६६॥ गतित्रये उत्कृष्टतोऽप्येतावन्तमेव कालमवस्थानादिति, 'नपुंसे'त्ति नपुंसकस्मापि तद्भावं परित्यज्य स्त्रीपुंवेदयोरुत्पन्नस्य पुनरपि नपुंसकत्वप्राप्तौ इदमेवान्तरं भावनीयं, स्त्रीपुरुषवेदयोरुत्कर्षतोऽप्येतावन्तमेव कालं स्थितिभावात्, न च वक्तव्यं पुरुषवेदे केवलेऽप्येतावानवस्थितिकालः प्रागुक्तोऽतः स्त्रीवेदकालोऽतिरिच्यत इति, यस्मादसौ स्वल्प एव ततश्च सातिरेकसागरोपमशतपृथक्त्वलक्षणपुरुषवेदस्थितिकालोऽप्यन्तर्भवतीत्यदोषः । ' असण्णी य' त्ति न संज्ञी असंज्ञीतिव्युत्पत्तेर्गर्भजपंचेन्द्रियसंज्ञिनोऽन्यः सर्वोऽप्येकेन्द्रियादिरसंज्ञित्वेनेह विवक्षितः, तस्याप्यसंज्ञित्वं परिहृत्य गर्भजपंचेंद्रियलक्षणेषु संज्ञिषूत्पन्नस्य पुनरप्यसंज्ञित्वभवने एतदेवान्तरं, यतः संज्ञिनां प्रागेवावस्थितिकालो यथोक्तमान एवोक्त इति, यदि पुनरिहासंज्ञी सम्मूर्च्छजपंचेंद्रियलक्षणः समयपरिभाषित एव गृह्येत तदा तस्यान्यत्रेोत्पद्य पुनरसंज्ञित्वभवने वनस्पत्यादिकालः सर्वोऽप्यन्तरे लभ्येत, तथा च सत्यसंख्येयाः पुद्गलपरावर्त्ता अन्तरं ग्रामोति, न चैवमुक्तं, तस्माद्यथोक्त एवासंज्ञीह गृह्यत इति, अन्ये तु तिर्यग्नपुंसकासंज्ञिलक्षणस्यैकस्यैव राशेरन्यत्रोत्पद्य पुनस्तद्भावे उत्कृष्टतः सागरोपमशतपृथक्त्वमन्तरमिति व्याचक्षते, एतच्चानेकदोषदुष्टत्वादयुक्तमिव लक्ष्यते, ते च दोषाः सिद्धान्तपरिकर्मितमतिभिः पूर्वापरोक्तार्थवेत्तृभिश्च सुव्यक्तत्वात् स्वयमेवाभ्युद्या इति गाथार्थः ।। २५३ ॥ अथ देवगतौ देवानामादौ प्रतिज्ञातलक्षणमन्तरमभिधित्सुराह- जावीसाणं अंतोमुहुत्तमपरं सणंकुसहसारो । नव दिण मासा वासा अणुत्तरोक्कोस उयहिदुगं ॥ २५४ ॥ ' जावीसाणं'ति भवनवास्यादीन् देवानादौ कृत्वा ईशानं द्वितीयदेवलोकं यावद् ये देवास्तेभ्यश्च्युतस्य मत्स्यादिषूत्पन्न - असंज्ञिनां देवाना मन्तरम् ॥२६६॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308