Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
नानां जघ
जविसमासे | दृष्टिरुद्वर्तितसम्यक्त्वमिश्रपुञ्जो वा मिथ्यादृष्टिः षड्विंशतिसत्कर्मा सन् पूर्वोपवर्णितक्रमणौपशमिकं सम्यक्त्वमवामोति यश्च 181 हैमीवृत्तौ है। तस्यामेवौपशमिकसम्यक्त्वाद्धायां पूर्वोक्तेनैव न्यायेन सास्वादनो भवति तौ द्वावपि चतुर्गतिवत्तित्वादिना प्रभूतत्वादिहाभिधिअंतरद्वार त्सितौ, एतौ च लब्धमापशमिकं सम्यक्त्वं सास्वादनत्वं च परित्यज्य यदि पुनरपि तदेव प्राप्नुतस्तदा जघन्यतोऽपि पल्योपमा
न्यमन्तरं ॥२७४||
संख्येयभागादेव, नार्वाक, तथाहि-औपशमिकसम्यग्दृष्टिसास्वादनयोमिथ्यात्वं गतयोः प्रथमं तावदवश्यं सम्यक्त्वमिश्रपुञ्जी | सत्तायां भवत एव, न च तयोः सत्तायां तिष्ठतोः पुनरप्यौपशमिकसम्यक्त्वलाभसास्वादनभावौ सम्भवतः, तौ च सम्यक्त्वमिश्रपुञ्जी | मिथ्यात्वगतो जीवः प्रतिसमयमुद्वलयति, तद्दलिक मिथ्यात्वपुञ्ज प्रतिसमय प्रक्षिपतीत्यर्थः, एवं च क्रमेणोद्वय॑मानावेतौ पल्यो|पमासंख्येयभागेनैवोद्वय॑ते, सर्वथैवाभावरूपतामापयेते, नार्वाक् , कर्मप्रकृत्यादिषु तथैवाभिहितत्वादिति भावः, एवं च पल्योप| मासंख्येयभागेन सम्यक्त्वमिश्रपुञ्जयोरुद्वार्त्तितयोस्तदन्ते कोऽपि जीवः पुनरप्यौपशमिकं सम्यक्त्वं सास्वादनत्वं च प्रामोतीति, एवमनयोः पल्योपमासंख्येयभागरूपं जघन्यमन्तर भवति, 'अंतोमुहुत्तमियरे' त्ति इतरस्मिन्-उक्तशेषे मिथ्यादृष्ट्यविरतदेशविरतप्रमत्ताप्रमत्तोपशमश्रेणिगतापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणजन्तुसंघाते निज निज गुणमपहाय पुनस्त-14 मेव लभमानेऽन्तर्मुहर्त जघन्यमन्तरं विज्ञेयम्, एतच्च मिथ्यादृष्टयादीनां प्रायः प्रागेव भाषितम् , उपशमश्रेणिगतापूर्वकरणादीनां तूपशमश्रेणेः प्रतिपत्य पुनरन्तर्मुहर्त्तात्तामेवारोहतामिदं जघन्यमन्तरं बोद्धव्यम् , एकस्मिन् भवे वाराद्वयमुपशमश्रेणिकरणस्य
||२७४॥ सिद्धान्त समनुज्ञातत्वादिति, किमर्थं पुनरुपशमश्रेणिगतानामेवापूर्वकरणादीनां ग्रहणमित्याह-क्षपकस्य पुनः- क्षपकश्रेणिगतस्या-है। पूर्वकरणादेः क्षीणमोहसयोग्ययोगिकेवलिनां चान्तरं नास्ति, तद्गुणप्रतिपातस्यैवाभावादित्युक्तमेवेति गाथार्थः ॥ २५८ ॥
ACHARACTex

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308