Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 278
________________ जीवसमासे हैमीवृत्ती. अंतरद्वार ॥२७२॥ तस्तु नानाभवपरम्परासु निरन्तरेषु व्यवहितेषु वाज्न्यान्याकाशप्रदेशेषु प्रियमाणो यदा सर्वानपि लोकाकाशप्रदेशान् स्पृशति तदा गुणस्थानां क्षेत्रतो बादरः पुद्गलपरावतः, यदा तु येष्वाकाशप्रदेशेष्ववगाढ एकदा मृतस्तेषामेवानन्तरानाकाशप्रदेशानवगाह्यान्यदा म्रियतेऽपर-1 परमन्तरम् स्यां तु वेलायां तेषामपि निरन्तरानन्यान् अन्यस्यां तु वारायां तन्निरन्तरस्थितानपरानेवं तावद्यावदित्थं म्रियमाणो जन्तुरनन्तानन्तेषु जन्मसु नैरन्तर्यस्थितानमःप्रदेशान् क्रमेण स्पृशन् सर्वानपि लोकप्रदेशान् स्पृशति याँश्चापरप्रदेशवृद्धिरहितान् पूर्वावगाढान् व्यवहितत्वान्नमा प्रदेशानवगाह्य मृतः ते न गण्यन्ते तदा क्षेत्रतः सूक्ष्मपुद्गलपरावतः। कालतो यदोत्सर्पिण्यवसर्पिणीकालचक्रसम| येषु सर्वेष्वपि क्रमेणोत्क्रमेण वाऽनन्तानन्तर्भवैरेको जन्तुम॒तो भवति तदा बादरः पुद्गलपरावर्त्तः, अत्र पक्षे येषु समयेष्वेकदा मृतो| ज्यदापि यदि तेष्वेव म्रियते तदा ते न गण्यन्ते, यदा तु प्रथमाद्वितीयतृतीयचतुर्थपंचमादिसमयक्रममुलंध्याप्यपूर्वेषु समयेषु म्रियते तदा ते व्यवहिता अपि समया गण्यन्ते, सूक्ष्मे तु कालपुद्गलपरावर्तेऽयं विशेषो यत् प्रथमद्वितीयतृतीयादिसमयक्रमेणव म्रियमाणस्य ते समया गण्यन्ते यावत् सर्वेऽपि कालचक्रसमया आदितोऽन्तं यावत् क्रमेण मरणैाप्ता भवन्ति, येषु तु प्रथमादिसमयक्रममुल्लंघ्य म्रियते ते व्यवहितसमया न गण्यन्ते एवेति । इदानीं भावतः पुद्गलपरावों निरूप्यते, तत्र तावद् ये एकस्मिन् समये समुत्पद्यन्ते सूक्ष्माग्निकायिका जीवाः तेऽसंख्येयलोकाकाशप्रदेशराशिप्रमाणाः तेभ्यस्तु सूक्ष्माग्निकायिकाः सर्वेऽप्यसंख्येय| गुणाः, कथमिति चेदुच्यते, एकः सूक्ष्माग्निकायिको जीवः समुत्पन्नोऽन्तर्मुहूर्त जीवति, एतावन्मात्रायुष्कत्वात् तेषां, तस्मिँश्चान्त ॥२७२॥ | मुहूर्ते ये समयास्तेषु प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिकाः समुत्पद्यन्ते, इतः सिद्धमेकसमयोत्पन्नसूक्ष्माग्नि| कायिकेभ्यः सर्वेषां सूक्ष्माग्निकायानामसंख्येयगुणत्वं, तेभ्योऽपि सर्वसूक्ष्माग्निकायिकेभ्यस्तेषां कायस्थितिरसंख्येयगुणा, एकैक

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308