Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 285
________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२७९॥ असंख्याताः सर्वदैव प्राप्यन्ते, प्रतिपद्यमानकानां त्वमीषां जघन्यतः समय उत्कृष्टतस्त्वावश्यके 'विरयाविरइए होइ बारसग'मिति वचनाद् द्वादश दिनानि विरहकालः प्रोक्तः, अनेन तु कुतोऽपि चतुर्दश दिनान्यसौ लिखित इति परमार्थमत्रापि न जानीमः, सर्वविरतेरपि पूर्वप्रतिपन्नाः संख्याताः सर्वदैव प्राप्यन्ते, प्रतिपद्यमानकानां त्वेतेषां जघन्यतः समय उत्कर्षतस्तु पञ्चदशाहो - रात्राणि विरहकाल इति गाथार्थः ।। २६२ ।। तदेवं जीवगतभावानां कियतामपि लेशतोऽन्तरकालमभिधाय सर्वेषां विरहकालाभिधानस्याशक्यतां प्रविभाव्यातिदिशन्नाह भवभाव परित्तीर्ण कालविभागं कमेणऽणुगमित्ता। भावेण समुवउत्तो एवं कुज्जंतराणुगमं ॥ २६३ ॥ भवा--नारकादिजन्मलक्षणा भावास्तु - औदयिकादयस्तेषां भवभावानां परावृत्तयो विवक्षितेभ्यस्तेभ्योऽन्यत्र गतिलक्षणास्तासां भवभावपरावृत्तीनां कालद्वाराद्यभिहितं कालविभागं विविक्तम्- असंकीर्ण कालस्वरूपमागमोक्तक्रमेणानुगम्य ज्ञात्वा 'भावेन ' मनःपरिणामेन समुपयुक्त:- एकाग्रो भूत्वा एवं पूर्वोक्तानुसारेण प्रागनुक्तस्यापि जीवगतभावस्य कुर्यात् किमित्याह - अन्तरानुयोगम्-अन्तरकालव्याख्यानम्, इदमुक्तं भवति - विवक्षितभवाद्भवान्तरे गमनलक्षणा विवक्षितभावाच्च भावान्तरे संक्रमणस्वरूपा परावृत्तिर्यावता कालेन भवति तं कालविभागं ज्ञात्वा उपलक्षणत्वाल्लेश्यावेदकषायज्ञानदर्शनादिपरावृत्तीनां च कालस्वरूपमागमानुसारेणावगम्य पूर्वमनुक्तानामपि पदार्थानामुक्तानुसारेण सुबुद्धिः सिद्धान्तपरिकर्मितात्मा कश्चिदन्तरस्य - विरहकालस्य व्याख्यानं विदध्यादिति गाथार्थः ॥ २६३ ॥ तदेवं चिन्तितं जीवानाश्रित्यान्तरं, साम्प्रतं तद्विपक्षभूतानामजीवानां तच्चिन्तयितुमाह- शेषेषु विरहकाला तिदेशः ॥२७९ ॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308