Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
जीवसमासे हैमीवृत्ती अंतरद्वार
॥२७३॥
स्यापि सूक्ष्माग्निकायिकस्यासंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कायस्थितेः प्रतिपादितत्वादिति, तस्या अपि कायस्थितेः सका
*गुणस्थाना
नांपरमन्तरं शात् संयमस्थानानि अनुभागबन्धाध्यवसायस्थानानि च प्रत्येकमसंख्येयगुणानि, कायस्थित्यामसंख्येयानां स्थितिबन्धानां भावाद,
जघन्य च एकैकस्मिँश्च स्थितिबन्धेऽसंख्येयानामनुभागवन्धाध्यवसायस्थानानां सद्भावादिति, संयमस्थानान्यप्यनुभागबन्धाध्यवसायस्थानस्तुल्यान्येवेति, तत्र यदा एकैकस्मिन्ननुभागवन्धाध्यवसायस्थाने क्रमेणोत्क्रमेण वा म्रियमाणो जन्तुः सर्वाण्यप्येतानि स्पृशति तदा बादरो भावपुद्गलपरावर्तः, अत्र पक्षे यदध्यवसायस्थानमेकदा नियमाणेन स्पृष्टं यद्यन्यदापि तदेव स्पृशति तदा न गण्यते, अपूर्व तु दूरव्यवहितमपि स्पृष्ट गण्यते, यदा तु येनैव विशुद्धविशुद्धतरविशुद्धतमादिक्रमेण व्यवस्थितान्येतान्यनुभागबन्धाध्यवसायस्थानानि तेनैव क्रमेणानन्तानन्तर्भवैम्रियमाणः सर्वाण्यपि स्पृशति व्यवहितानि तु स्पृष्टान्यपि न गण्यन्ते तदा सूक्ष्मो भावपुद्गलपरावर्तो भवतीत्यलं विस्तरेणेति गाथार्थः ॥२५७ ॥ तदेवमुक्तं मिथ्यादृष्ट्यादिगुणानामुत्कृष्टमन्तरं, साम्प्रतं तेषामेव जघन्यं तदेवाह
सासाणुवसमसम्मे पल्लासंखज्जभागमवरं तु । अंतोमुहत्तमियरे खवगस्स उ अंतरं नस्थि ।। २५८ ।। 'सासाणुवसमसम्मेत्ति सास्वादनश्च औपशमिकं सम्यक्त्वं यस्यासौ औपशमिकसम्यक्त्वश्च सास्वादनौपशामिकसम्य
॥२७३॥ क्वौ एतयोयोरपि तद्भावपरित्यागे पुनस्तत्पर्यायप्राप्ती अपरं हि जघन्यमन्तरं पल्योपमासङ्खथेयभागः, य उपशमश्रेण्याः प्रतिपतन् ला सास्वादनो भवति यश्चोपशमश्रेण्यामौपशमिकसम्यग्दृष्टिः प्राप्यते तो द्वावप्यल्पत्वान्नेह विवक्षितौ, किं तर्हि ?, योऽनादिमिथ्या

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308