Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
गुणस्थानां
जीवसमासे हैमीवृत्ती अंतरद्वारं
॥२७॥
SMSTU054
वक्तव्यः, उद्वर्त्तनाया एवाभावादिति गाथाद्वयार्थः ॥ २५५-२५६ ॥ तदेवं दर्शितो नारकादिगत्याश्रितजन्तूनामन्तरकालः, साम्प्रतं गुणस्थानलक्षणानां जीवसमासानां तमुपदर्शयन्नाह
परमन्तरम् मिच्छस्स उयहिनामा बे छावट्ठी परं तु देसूणा । सम्मत्तमणुगयस्स य पुग्गलपरियट्टमधूणं ॥२५७।। मा मिथ्यादृष्टेः परित्यक्तमिथ्यात्वस्य पुनस्तद्भावप्राप्तौ परम्-उत्कृष्टमन्तरं भवति, कियदिति चेदुच्यते, द्वे षट्पष्टी उदधि| नाम्नां सागरोपमाणां 'परंतु' ति तुशब्दश्वशब्दार्थे स च भिन्नक्रमे योज्यते, देशोना च मुहूर्ताद्धा इति शेषः, अन्तर्मुहूर्त| मित्यर्थः, उक्तं च कम्मप्र [६०००] कृतिचूाम्-" कोऽवि मिच्छत्ताओ सम्मत्तं गओ छावद्विसागरोवमा सम्मत्तकालो, तओ अंतो| मुहुत्तं सम्मामिच्छत्तं गओ, पुणो सम्मत्तं पडिवन्नो छाव िसागरोवमाई अणुपालेइ, तयंते य सिज्झइ मिच्छत्तं वा पडिवजइ, एव-12 | मुक्कोसेणं अंतोमुहुत्तब्भहियाओ दो छावट्ठीओ सागरोवमाणं मिच्छत्तस्स अंतरकालो हवइ"त्ति, पंचसंग्रहेऽपि जीवसमासद्वारे वृत्तिकृता |प्रोक्तम्-"कोऽपि मिथ्यादृष्टिः सम्यक्त्वगुणं प्रतिपन्नः पक्षष्टिः सागरोपमाणि स्थितः, ततश्चासौ सम्यक्त्त्वगुणी सम्यग्मिथ्यात्वेऽन्तर्मु-* | हृतं स्थित्वा भूयोऽपि सम्यक्त्वं गच्छति, ततस्तत्र पक्षष्टिः सागरोपमाणि स्थित्वा योऽद्यापि न सिद्ध्यति सोऽवश्यं मिथ्यात्वं गच्छति, यत उत्कर्षेणैतदन्तरं मिथ्यात्वस्येति, कार्मग्रन्थिकमतं चेदं, सैद्धान्तिकमतेन तु सम्यक्त्वान्मिश्रगमनं प्राग् निषिद्धमेवेति,
॥२७॥ अन्ये तु व्याचक्षते-देशोने-अन्तर्मुहूर्तोने द्वे षषष्टी सागरोपमाणां मिथ्यात्वस्योत्कृष्टमन्तरमिति, तदेतदयुक्तमिव लक्ष्यते, ग्रन्थान्तरैः सह व्यभिचारादिति, सम्मत्तमणुगये'त्यादि सम्यक्त्वानुगतस्य-सम्यक्त्वयुक्तस्याविरतदेशविरतप्रमत्ताप्रमत्तोपशमीणगता
55555

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308