Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 270
________________ चान्तरं हैमीवृत्ती. वसमासाका भवति, 'अड्डाइज्जपरहा पत्तेयतरुस्स' त्ति प्रत्येकतरु:- प्रत्येकशरीरवनस्पतिकायस्तस्य उपलक्षणत्वात सर्वेऽपि प्रत्येकशरीरिणः प्रत्येकापृथिव्यप्तेजोवाय्वादयोऽत्र गृह्यन्ते, ततश्च सामान्येन प्रत्येकशरीरिणां जीवानां प्रत्येकराशेरुद्वर्त्य साधारणशरिषूत्पन्नानां पुनरपि मदीनां बाद अंतरद्वारं | प्रत्येकशरीरित्वभवने जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतस्त्वर्द्धतृतीयाः पुद्गलपरावा अन्तरं भवति, प्रत्येकशरीरेभ्यो ह्युद्वृत्तानां साधारण 18 रनिगोदा दीना ॥२६४॥ शरीरेष्वेवोत्पत्तिः, तेषु चोत्कृष्टतो तृतीयपुद्गलपरावलक्षणः स्थितिकालः प्रागभिहितः, एतावन्तं च कालमिह स्थित्वोवृत्तानां प्रत्येकशरीरेष्वेव गमनं. प्रत्येकसाधारणराशिभ्यामन्यस्य जीवराशेरेवाभावात , तस्मात् प्रत्येकशीरिभ्य उद्वर्त्य पुनरपि प्रत्येकशरी| रिष्वेवोत्पत्तौ युक्तमेवा तृतीयपुद्गलपरावर्त्तलक्षणमुत्कृष्टमन्तरं, अन्ये तूपलक्षणव्याख्यानं न कुर्वन्ति, किन्तु केवलप्रत्येकतरोः स्वका-13 यादुद्वृत्यान्यत्रोत्पन्नस्य पुनरपि प्रत्येकतरुत्वभवन एव यथोक्तमन्तरं व्याख्यानयन्ति, तच्चायुक्तमिव लक्ष्यते, यतः केवलानामेव साधारणवनस्पतिकायिकानामर्द्धतृतीयपुद्गलपरावर्तलक्षणा कायस्थितिरभिहिता, प्रत्येकतरुभ्यश्चोवृत्तानां न साधारणवनस्पतिकायिका एव स्थानं येन तत्कायस्थितिरेवान्तरं स्यात् , किन्तु पृथिव्यप्तेजोवायुत्रसा अपि, एतेषां च षण्णामपि राशीनां समुदिता | कायस्थितिरसंख्याता अपि पुद्गलपरावर्ताः सम्भाव्यन्ते, युक्तिसंगतत्वाद, यथा प्रत्येकाप्रत्येकस्वरूपाणां सामान्येन वनस्पतिकायिकानां, ततश्च यथा पृथिव्यप्तेजोवायुत्रसेभ्य उद्वर्त्य वनस्पतिवृत्पन्नानां पुनरपि पृथिव्यादिरूपतायामसंख्याताः पुद्गलपरावर्ताः प्रागुत्कृष्टमन्तरमभिहितम्, एवं केवलप्रत्येकतरुभ्य उद्वर्त्य साधारणवनस्पतिपृथिव्यप्तेजोवायुत्रसेषूत्पन्नानां जन्तूनां पुनरपि प्रत्येक-18 तरुत्वभवनेऽप्युक्तं स्यात्, न चैवमभिहितं, तस्मादुपलक्षणव्याख्यानात् सर्वेऽपि प्रत्येकशरीरिणोत्र गृह्यन्ते, एतेभ्यश्चोवृत्तानां साधारणवनस्पतय एवोत्पत्तिस्थानं, ततस्तेषूत्कृष्टतो तृतीयान् पुद्गलपरावर्त्तानतिवाह्य पुनः प्रत्येकशरीरिष्वेवोत्पत्तिः, अतो युक्तं

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308