Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 269
________________ जीवसमासे वृत्त अंतरद्वारं ॥२६३॥ प्रस्तावे प्रतिपादितोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापहारनिष्पन्नःसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो मन्तव्यः, सूक्ष्माणामपि पृथिव्यादिजीवानां सूक्ष्मेभ्य उद्वृत्त्यान्यत्रोत्पन्नानां पुनरपि सूक्ष्मेत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु बादरजीवस्थितिकालोऽन्तरं भवति, स च बादरस्थितिकालाभिधाने प्रतिपादितः सप्ततिसागरोपमकोटकिोटिस्वरूपो विज्ञेयः, 'हरिएयरे य' ति हरितानिवनस्पतिकायः इतरस्तु - पृथिव्यप्तेजोवायुत्रसकायः, ततश्च वनस्पतिकायिकानां पुनर्वनस्पतिकायिकत्वे पृथिव्यादिस्थितिकालोऽन्तरं, पृथिव्यादिकायस्य तु पुनरपि पृथिव्यादिरूपतायां वनस्पतिस्थितिकालोऽन्तरं भवतीति क्रमेण प्रत्येकं योजयेदिति, इदमुक्तं भवति| सामान्येन वनस्पतिकायिकानां जीवानां वनस्पतिकायादुद्वृत्त्यान्यत्रेात्पन्नानां पुनरपि वनस्पति काय भवने जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु पृथिव्यादिशेषजीवस्थितिकालोऽन्तरं भवति, स चासंख्येयलोकाकाशप्रदेशराशिप्रतिसमय पहार निर्वृत्तासंख्येयोत्सर्पिण्यवसर्पिणीमानः प्रागुक्तो द्रष्टव्यः, इतरेषां तु पृथिव्यप्तेजोवायुत्रसजीवानां पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषु भ्राम्यतां पुनरपि पृथिव्यादिषूत्पत्तौ जघन्यतो ऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु वनस्पतिकालोऽन्तरं भवति, स चावलिका संख्येयभागवर्त्तिसमयराशिप्रमाण पुद्गलपरावर्त्तस्वरूपः प्रागुक्तो | मन्तव्य इति गाथार्थः ॥ २५९ ॥ किंचित्प्रकारान्तरविशेषितमिदमेवाह हरिएयरस्स अंतर असंख्या होंति पोग्गलपरद्वा । अड्डाइज्जपरहा पत्तेयतरुस्स उक्कासं ॥ २५२ ॥ हरितस्य - सामान्येन वनस्पतिकायस्येतरः- पृथिव्यप्तेजोवायुत्रसजीवराशिस्तस्य हरितेतरस्य एतेभ्यः पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषूत्पन्नस्य पुनः पृथिव्यादिरूपतापत्तौ जघन्यमन्तर्मुहूर्त्तमुत्कृष्टं त्वावलिकाऽसंख्येय भागवर्त्तिसमयराशिप्रमाणाः पुद्गलपरावर्त्ता अन्तरं स्थावरादीनां प्रत्येकादीनां चान्तरं - ॥२६३॥

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308