________________
जीवसमासे वृत्त अंतरद्वारं
॥२६३॥
प्रस्तावे प्रतिपादितोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापहारनिष्पन्नःसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो मन्तव्यः, सूक्ष्माणामपि पृथिव्यादिजीवानां सूक्ष्मेभ्य उद्वृत्त्यान्यत्रोत्पन्नानां पुनरपि सूक्ष्मेत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु बादरजीवस्थितिकालोऽन्तरं भवति, स च बादरस्थितिकालाभिधाने प्रतिपादितः सप्ततिसागरोपमकोटकिोटिस्वरूपो विज्ञेयः, 'हरिएयरे य' ति हरितानिवनस्पतिकायः इतरस्तु - पृथिव्यप्तेजोवायुत्रसकायः, ततश्च वनस्पतिकायिकानां पुनर्वनस्पतिकायिकत्वे पृथिव्यादिस्थितिकालोऽन्तरं, पृथिव्यादिकायस्य तु पुनरपि पृथिव्यादिरूपतायां वनस्पतिस्थितिकालोऽन्तरं भवतीति क्रमेण प्रत्येकं योजयेदिति, इदमुक्तं भवति| सामान्येन वनस्पतिकायिकानां जीवानां वनस्पतिकायादुद्वृत्त्यान्यत्रेात्पन्नानां पुनरपि वनस्पति काय भवने जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु पृथिव्यादिशेषजीवस्थितिकालोऽन्तरं भवति, स चासंख्येयलोकाकाशप्रदेशराशिप्रतिसमय पहार निर्वृत्तासंख्येयोत्सर्पिण्यवसर्पिणीमानः प्रागुक्तो द्रष्टव्यः, इतरेषां तु पृथिव्यप्तेजोवायुत्रसजीवानां पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषु भ्राम्यतां पुनरपि पृथिव्यादिषूत्पत्तौ जघन्यतो ऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु वनस्पतिकालोऽन्तरं भवति, स चावलिका संख्येयभागवर्त्तिसमयराशिप्रमाण पुद्गलपरावर्त्तस्वरूपः प्रागुक्तो | मन्तव्य इति गाथार्थः ॥ २५९ ॥ किंचित्प्रकारान्तरविशेषितमिदमेवाह
हरिएयरस्स अंतर असंख्या होंति पोग्गलपरद्वा । अड्डाइज्जपरहा पत्तेयतरुस्स उक्कासं ॥ २५२ ॥ हरितस्य - सामान्येन वनस्पतिकायस्येतरः- पृथिव्यप्तेजोवायुत्रसजीवराशिस्तस्य हरितेतरस्य एतेभ्यः पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषूत्पन्नस्य पुनः पृथिव्यादिरूपतापत्तौ जघन्यमन्तर्मुहूर्त्तमुत्कृष्टं त्वावलिकाऽसंख्येय भागवर्त्तिसमयराशिप्रमाणाः पुद्गलपरावर्त्ता अन्तरं
स्थावरादीनां प्रत्येकादीनां चान्तरं
-
॥२६३॥