Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti

View full book text
Previous | Next

Page 256
________________ अजीव जीवसमासेगस्याप्युपादानं प्राप्नोति तथाऽपि गाथाऽवयवस्यास्य प्रायोवृत्त्या प्रवृत्तेः सिद्धान्तानुरोधात् स्वयमपि तद्वर्जनं द्रष्टव्यमिति हैमीवृत्तौ गाथार्थः ॥ २३९ ॥ तदेवं भवस्थितिकायस्थितिगुणविभागस्थितिलक्षणं जीवसमासविषयं त्रिविधमपि कालमभिधायोपसंहरनाह स्थितिअंतरद्वारं काल: एत्थ य जीवसमासे अणुमज्जिय सुहमानउणमइकुसलो । सुहुमं कालविभागं विभएज्ज सुयम्मि उवउत्तो॥२४०॥ ॥२५०॥ अनन्तः श्रुतसमुद्रोऽपरिमितास्तदभिहिता जीवसमासविषयाः पदार्थास्तत् कियतां प्रत्येकमहं स्थितिकालं वच्मि, तस्माद् | ए वचनव्यत्ययेन जीवसमासेष्वेतेषु कालद्वारमाश्रित्य विचारणीयत्वेन प्रक्रान्तेषु स्थूलस्य कियतोऽपि मयाऽप्यभिहितत्वात् सूक्ष्ममति गम्यं सूक्ष्ममपरमपि सम्भविन जीवसमासविषयं कालविभाग-स्थितिकालभेदं श्रुते उपयुक्तः तदनुसारेणैव विभजेत् --स्वयमपि | विभागेन प्रतिपादयेत्, किं कृत्वा ?-'अनुमज्ज' विमृश्य विमर्श द्वारेण तस्यैव श्रुताम्भोधेरन्तः समवगाह्य, क इत्याह-सूक्ष्मनिपुणमति | कुशलः, अतिनिविडानामपि पदाथोनामन्तः प्रविश्य तत्त्वावगमात सूक्ष्मा, तथा सूक्ष्मसूक्ष्मतरसूक्ष्मतमपदाथेपरिच्छेददक्षत्वानिपुPणा यासौ मतिस्तया कुशलो-विज्ञः सूक्ष्मनिपुणमतिकुशलः, इदमुक्तं भवति-अन्यस्य कथितमात्रावधारणऽपि सन्देहात् स्वमत्याऽभ्यूह्य है दूरस्थितत्वाद्यथोक्तमतिरेव कश्चिच्छुतानुसारेण विमृश्य जीवसमासविषयमपरमपि कालविभाग यथोचितमभिदध्यादिति गाथार्थः १॥२४० ।। तदेवमभिहितो जीवसमासविषयः स्थितिकालः, साम्प्रतमजीवविषयं तमभिधित्सुराह तिण्णि अणाइअणता तीयद्धा खलु अणाइया संता । साइअणंता एसा समओ पुण वट्टमाणद्धा ॥२४१॥ त॥२५०॥ धर्माधर्माकाशास्तिकायाः कालपुद्गलाश्चेति पश्च तावदजीवद्रव्याणि, एतेषु च मध्ये द्रव्यार्थतया धर्माधर्माकाशास्तिकायलक्षणानि HAR

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308