SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अजीव जीवसमासेगस्याप्युपादानं प्राप्नोति तथाऽपि गाथाऽवयवस्यास्य प्रायोवृत्त्या प्रवृत्तेः सिद्धान्तानुरोधात् स्वयमपि तद्वर्जनं द्रष्टव्यमिति हैमीवृत्तौ गाथार्थः ॥ २३९ ॥ तदेवं भवस्थितिकायस्थितिगुणविभागस्थितिलक्षणं जीवसमासविषयं त्रिविधमपि कालमभिधायोपसंहरनाह स्थितिअंतरद्वारं काल: एत्थ य जीवसमासे अणुमज्जिय सुहमानउणमइकुसलो । सुहुमं कालविभागं विभएज्ज सुयम्मि उवउत्तो॥२४०॥ ॥२५०॥ अनन्तः श्रुतसमुद्रोऽपरिमितास्तदभिहिता जीवसमासविषयाः पदार्थास्तत् कियतां प्रत्येकमहं स्थितिकालं वच्मि, तस्माद् | ए वचनव्यत्ययेन जीवसमासेष्वेतेषु कालद्वारमाश्रित्य विचारणीयत्वेन प्रक्रान्तेषु स्थूलस्य कियतोऽपि मयाऽप्यभिहितत्वात् सूक्ष्ममति गम्यं सूक्ष्ममपरमपि सम्भविन जीवसमासविषयं कालविभाग-स्थितिकालभेदं श्रुते उपयुक्तः तदनुसारेणैव विभजेत् --स्वयमपि | विभागेन प्रतिपादयेत्, किं कृत्वा ?-'अनुमज्ज' विमृश्य विमर्श द्वारेण तस्यैव श्रुताम्भोधेरन्तः समवगाह्य, क इत्याह-सूक्ष्मनिपुणमति | कुशलः, अतिनिविडानामपि पदाथोनामन्तः प्रविश्य तत्त्वावगमात सूक्ष्मा, तथा सूक्ष्मसूक्ष्मतरसूक्ष्मतमपदाथेपरिच्छेददक्षत्वानिपुPणा यासौ मतिस्तया कुशलो-विज्ञः सूक्ष्मनिपुणमतिकुशलः, इदमुक्तं भवति-अन्यस्य कथितमात्रावधारणऽपि सन्देहात् स्वमत्याऽभ्यूह्य है दूरस्थितत्वाद्यथोक्तमतिरेव कश्चिच्छुतानुसारेण विमृश्य जीवसमासविषयमपरमपि कालविभाग यथोचितमभिदध्यादिति गाथार्थः १॥२४० ।। तदेवमभिहितो जीवसमासविषयः स्थितिकालः, साम्प्रतमजीवविषयं तमभिधित्सुराह तिण्णि अणाइअणता तीयद्धा खलु अणाइया संता । साइअणंता एसा समओ पुण वट्टमाणद्धा ॥२४१॥ त॥२५०॥ धर्माधर्माकाशास्तिकायाः कालपुद्गलाश्चेति पश्च तावदजीवद्रव्याणि, एतेषु च मध्ये द्रव्यार्थतया धर्माधर्माकाशास्तिकायलक्षणानि HAR
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy