________________
है
जीवसमासे रित्यर्थः, नरकगतिदेवगत्योः पल्योपमासंख्येयभाग यावदुत्कृष्टतो वैक्रियमिश्रकाययोगो निन्तरमवाप्यते, परतोऽन्तरसद्भावादिति भावः शेष काल हैनीवृत्तौ । यदि पुनक्रियलब्धिमतां तिर्यङ्मनुष्याणां चैक्रियशरीरारम्भकाले तत्परित्यागसमये वा यो वैक्रियमिश्रकाययोगोऽन्यत्राभि-विभागातिकालद्वारे हितः सोऽपीह विवक्ष्यते तदा सर्वदेवासौ निर्दिश्यते, न कदाचनापि तद्व्यवच्छेदो, यदाह-"ओघतो वैक्रियमिश्रशरीरकाययोगिनो देशः
नारकादयः सदैव भवन्तीति," "भिन्न मुहुत्तं आहारमिस्स 'त्ति आहारकमौदारिकेण मिश्रं यत्रासौ आहारकमिश्रः काययोगः, ॥२४९॥
स भिन्नमुहर्तमन्तर्मुहुर्त यावनिरन्तरमवाप्यते न परतः, इदमुक्तं भवति-पंचदशस्वपि कर्मभृमिष्वाहारकामश्रकाययोगवृत्तयश्चतुर्दशपूर्वविदो निरन्तरमन्तर्मुहूर्तमेव लभ्यन्ते, परतः सम्पूर्णाहारकवृत्तेस्तदभावस्य वा सम्भवादिति, सेसाण सव्वद्धं ' ति उक्त| योगद्वयं आहारककाययोगं च तृतीयं वर्जयित्वा शेषयोगानां सत्यासत्यादिभेदभिन्नमनोवाग्योगादारिकामश्रेवैक्रियकार्मणकायप्रयोगलक्षणानां नानाजीवेषु सर्वाद्धं-सर्वकालमवस्थितिः, नानाजीवेषु हि द्वित्रिचतुःपंचेन्द्रियेषु सत्यासत्योभयानुभयभेदभिन्ना | मनोवाग्योगास्तावत् सर्वदेवाव्यवच्छिन्नाः प्राप्यन्ते, तथौदारिकाण्यौदारिकमिश्राणि च शरीराणि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि सामान्येन तिर्यङ्मनुष्येषु सर्वदैवाव्यवच्छिन्नानि लभ्यन्ते, वैक्रियशरीराण्यपि नारकादिनानाजीवेष्वसंख्येयश्रेणिप्रदेशराशिप्रमाणानि सर्वदैव लोकेऽस्मिन्नव्यवच्छिन्नानि भवन्ति, कार्मणशरीराणि तु सर्वसंसारिजीवानामनन्तानि सदैव न व्यवच्छिद्यन्ते, आहारककाययोगस्तर्हि किं सर्वकालं न लभ्यते येनात्र वर्जित इति चेदेवमेवैतत् , तथा चोक्तम्-" आहारगाई लोए छम्मासं जा न हुतिवि कयाइ । उक्कोसेणं नियमा एक समयं जहण्णेणं ।। १ ।। हुंताई जहण्णेणं एक दो तिन्नि पंच व हवति । ॥२४९।। उकासेणं जुगवं पुहुत्तमेगं सहस्साणं ॥ २॥" ति. इह च गाथायां यद्यपि 'सेसाण सम्वद्ध' मिति भणनादाहारककाययो
लामवन्ते, तधौदारिकाण्यानालन्यन्ते, वैक्रियशु सर्वसंसारि
ARRC46