________________
जीवसमासेमा हैमीवृत्ती
विक्रियाहारक मिश्रकाल:
कालद्वारे
॥२४८॥
| कोऽपि प्रतिपद्यते, तीर्थकरतदासेवको विहायान्यसमीपे तत्प्रतिपत्त्यनुज्ञाऽभावाद् , एवं च सत्यष्टंपचाशद्वर्षलक्षणेन देशेन न्यूने द्वे पूर्वकोटी यावदुत्कृष्टतो निरन्तरमिदमवाप्यत इत्युक्तं भवति, एते च छेदोपस्थापनीयपरिहारविशुद्धिकचारित्रे उत्सर्पिण्यवसर्पिणीकालप्रथमचरमतीर्थकरतीर्थेष्वेव भवतः, मध्यगतद्वाविंशतितीर्थकरकाले महाविदेहेषु च तदभावाद्, अतो न तत्र ते दर्शिते इति भावः, उक्तंच प्रज्ञप्तौ-"छेओवट्ठावणियसंजयेणं भंते ! कालओ केचिरं होंति ?, गोयमा ! जहणेणं अड्डाइज्जाई वाससयाई उकोसेण पन्नासं सागरोवमकोडिसयसहस्साई" ति, " परिहारविसुद्धियसंजया णं भैते ! कालओ केचिरं हुति ?, गोयमा! जहण्णेणं देसूणाई | दो वाससयाई उक्कोसेणं देसूणाओ दो पुवकोडिउ" ति, आह-यद्येवमनेन रूपेण सामायिकादिचारित्राणामपि कालो वक्तव्यः सम्भ
वत्येव, किमिति तत्परिहारण प्रस्तुतचारित्रद्वयस्यैवायमुक्त इति, सत्यं, किन्तु सामायिकयथाख्यातचारित्रे तावन्महाविदेहादिषु सर्वका&ालं भावात् सर्वदैव भवतः, सूक्ष्मसम्परायचारित्रं तु जघन्यतः समय उत्कृष्ट तस्त्वन्तर्मुहूतं भवतीति स्वयमेव द्रष्टव्यम्, उक्तंच-"सुहु
मसंपरायसंजया णं भंते ! कालओ केचिरं हुति ?, गोयमा ! जहण्णेणं एक समय उकासगं अंतोमुहुत्तं" ति, ततः परं क्षपकश्रेण्यु४. पशमश्रेण्योरन्तरसद्भावाच्छेणेश्चान्यत्र सूक्ष्मसम्परायचारित्राभावादिति भाव इति गाथार्थः ॥२३८॥ योगानामप्येकजीवाश्रितः स्थि| तिकालः प्रागभिहितो, नानाजीवाश्रितं तु तमभिधित्सुराह
पल्लासंखियभागो वेउब्बियमिस्सगाण अणुसारो । भिन्नमुहुत्तं आहारमिस्ससेसाण सम्वद्धं ॥ २३९ ॥ वैक्रिय कार्मणेन सह मिश्रं येषु ते वैक्रियमिश्राः काययोगास्तेषां पल्योपमासंख्येयभागं यावदनुसरणमनुसारो-निरन्तरप्रवृत्ति
ॐॐॐॐ%%%
M॥२४॥