________________
जीवसमासे | गणेन पूर्वोक्तहेतोरेकोनत्रिंशद्वर्षेषु गतेष्ववसर्पिणीचरमतीर्थकरसमीपे परिहारविशुद्धिकचारित्रं प्रतिपद्यैकसप्ततिं वर्षाणि निरन्तरम-IM छेदोपहैमीवृत्तौनुपालितं, तदायुःपर्यन्ते च तत्समीप वर्षशतायुषैवान्येन नवकगणेन पूर्वोक्तयुक्तित एवैकोनत्रिंशद्वर्षेषु स्वायुषोऽतिक्रान्तेषु || स्थाप्य कालद्वारे प्रस्तुतचारित्रमङ्गीकृत्यैकसप्ततिमेव वर्षाणि निरन्तरमनुष्ठितं, अतः परमिदं न कोऽपि प्रतिपद्यते, तीर्थकरं तत्समीपप्रतिपनप्रकृ.
परिहार
काल: ॥२४७॥
| तचारित्रं वा विहायान्यस्यान्तिके तत्प्रतिपत्तेनिषेधादिति, एवं च सति द्विचत्वारिंशं वर्षशतं निरन्तरमेतत्प्रतिपत्तिरुक्ता भवति, एतदेव च विंशतिपृथक्त्ववाच्यत्वेन विवक्षिवमत्रावगन्तव्यम्, वर्षद्वयाधिकाभिः सप्तभिर्विशतिभिर्मध्यमस्य विंशतिपृथक्त्वस्य भावादिति गाथार्थः ॥ २३७ ॥ एतयोरेव चारित्रयो नाजीवगतमुत्कृष्टं कालमाह
कोडिसयसहस्साई पन्नासं हुंति उयाहनामाणं । दो पुवकोडिऊणा नाणाजीवहि उकोस्सं ॥ २३८ ॥
नानाजीवेत्कृष्टं कालमाश्रित्य पूर्वगाथातोऽनुवर्तमानं छेदोपस्थापनीयचारित्रं पंचाशत्कोटिशतसहस्राण्युदधिनाम्नां सागरोपमानां भवति, पंचाशत्कोटिलक्षसागरोपमप्रमाणेऽवसर्पिणीकालप्रथमतीर्थकरतीर्थ निरन्तरमव्यवच्छिन्नं प्राप्यत इत्यर्थः, | द्वितीयादितीर्थकृतीर्थेषु छेदोपस्थापनीयचारित्राभावादिति, पूर्वगाथाया एवानुवर्तमान परिहारविशुद्धिकं चारित्रं नानाजीवेत्कृष्टतो द्वे पूर्वकोटी देशोने निरन्तरमवाप्यते, तथाहि-अवसर्पिणीकालप्रथमतीर्थकरस्यान्तिके पूर्वकोव्यायुषा नवकेन गणेनकोनत्रिंशद्वर्षेः स्वायुषोऽतिक्रान्तैः परिहारविशुद्धिकचारित्रं प्रतिपन्नमामरणान्तं च परिपालितं, तदायुःपर्यन्ते च तत्समीपे पूर्वकोट्यायुषैवान्येन नवकग
॥२४७॥ | णेन स्वायुष्कादेकोनत्रिंशद्वर्षेः स्वायुषः समतिक्रान्तः परिहारविशुद्धिकचारित्रं प्रतिपन्नमामरणान्तं च परिपालितम् , अतः परमिदं न