SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२५१॥ त्रीण्यजीवाख्यद्रव्याण्यनाद्यनन्तानि भवन्ति, अनादिकालात्तत्सामान्यरूपस्य प्रवृत्तत्वाद्, भविष्यत्काले तु कदाचिदप्यव्यवच्छेदादिति, कालोऽपि सामान्यरूपेण अनयैव युक्त्याऽनाद्यनन्त एव, विशेष रूपतया तु चिन्त्यमानः स तावत् त्रिधा भवति, तद्यथा अतीताद्धा एष्याद्धा वर्तमानाद्धा चेति, तत्राद्धाशब्दः स्त्रीलिङ्गप्रतिरूप कोऽव्ययः कालवाची, ततश्वातीता चासौ अद्धा चातीताद्धा, अतीतकाल इत्यर्थः, सेयमतीतकालरूपाऽतीताद्धा खलुरवधारणे अनादिका सान्तैव च भवति, न विद्यते आदिर्यस्याः साऽनादिका, सहान्तेन वर्तते इति सान्ता, प्रज्ञापकप्ररूपणाकालवर्त्तिनं हि समयमवधौ कृत्वाऽतीतकालस्यातीताद्धारूपता व्यवस्थाप्यते, ततस्तस्या अनादिकालात् प्रवृत्तत्वादनादिता वर्त्तमानसमयपर्यन्तत्वात्तु सान्तता, 'साइ अनंता एस ' चि एष्यति वर्त्तमानसमयादूर्ध्वं प्रवर्त्तिष्यत इत्येष्या, सा पुनः सादिरनन्ता च भवति, वर्त्तमानसमयादनन्तरं तत्प्रवृत्तिरिति सादित्वं पुरतस्त्वपर्यवसानत्वादनन्तत्वमिति, ' समओ पुण वहमाणद्ध'त्ति प्रज्ञापकप्ररूपणापेक्षया इदानीं वर्तत इति वर्त्तमाना सा चासौ अद्धा च वर्त्तमानाद्धा, सा पुनरेकसमयरूपैव भवति, अतीत समयस्य तीताद्धाऽनुप्रवेशादनागतसमयस्य त्वेष्याद्धा मीलनात् पारिशेष्यत एव वर्त्तमानाद्धा एकसमयरूपैवावतिष्ठत इतिभाव इति गाथार्थः ।। २४१ ।। अथ पुद्गललक्षणानामजीवानां स्थितिकालमाह काल परमाणु यदुपएसाईणमेव खंधाणं । समओ जहण्णमियरो उस्सप्पिणिओ असंखज्जा ॥ २४२ ॥ परमाणोर्द्विप्रदेशादीनां च स्कन्धानां प्रत्येकं कालो भवति, कियानित्याह- जघन्यः समय इतरस्तु उत्कृष्टेऽसङ्घयेया उत्सर्पिण्यवसर्पिण्यः, इदमुक्तं भवति एकाकी परमाणुस्तद्रूपतया जघन्यतः समयमुत्कृष्टतस्त्वसङ्घयेया उत्सर्पिण्यवसर्पिणीर्यावदवतिष्ठते, एवं अजीवानां स्थितिः ॥२५१॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy