Book Title: Gyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Author(s): Yashovijay Gani
Publisher: Gulabchandra Devchandra

View full book text
Previous | Next

Page 175
________________ सविवरणं भीज्ञाना कप्रकरणम्॥ ॥७९॥ CREASANAORE | भवन्ति, अन्तर्मुहूर्तमपि महाप्रयत्नस्य लघु भवति अल्पप्रयत्नस्य तु बृहत्प्रमाणं भवतीति, उक्तार्थसंवादिन्यौ भाष्यस्येमे गाथे "गहणं मोक्खो भासा, समयं गह-निसिरणं च दो समया ॥ होंति जहणंतरओ, तं तस्स च बीयसमयम्मि ।। ३७१ ॥ गहणं मोक्खो भासा, गहणविसग्गा य होंति उक्कोसं ॥ अंतोमुहुत्तमेवं, पयत्तभेएण भेयो सिं ॥३७९॥" [ग्रहणं मोक्षो भाषा समय, ग्रह-निसर्जनं च द्वौ समयौ। भवन्ति जघन्यान्तरतस्तत् तस्य द्वितीयसमये॥ ग्रहणं मोक्षो भाषा ग्रहणविसौ च भवन्त्युत्कर्षतः॥ अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥] इति, प्रथमसमये ग्रहणमेव चरमसमये निसर्ग एच, मध्यसमये तु द्वावपि भवतः, एकस्मिन् समये कथं तदुभयं विरोधादिति नाशङ्कनीयम्, यस्यैव यस्मिन् समये ग्रहणं तस्यैव तस्मिन्नेव समये निसर्ग इत्युपगमे स्याद्विरोधः, न चैवमुपगमः, किन्तु प्रथमसमये यस्य ग्रहणं तस्य द्वितीयसमये निसर्गोऽन्यस्य च तदानीं ग्रहणमित्येवमुत्तरोत्तरसमयेऽभ्युपगमे विषयभेदेन विरोधाभावात, एकस्मिन् समये उपयोगद्वयस्यैवासम्भवो न तु. क्रियादयस्य "जुगवं दो नत्थि उवओगा" इतिवचनादागमे उपयोगद्वयस्यैव यौगपद्यनिषेधो न तु क्रियाद्वयस्य, "भंगियसुयं गणतो, वट्टइ तिविहे विज्झाणम्मि" इत्यादिवचनेन वामनःकायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव, अगुल्यादिसंयोगविभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पादच्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेष्वागमेऽनुज्ञा विहितैव, तथाऽध्यक्षतोऽपि जिनप्रतिमामर्चयतः पुंसः एकस्मिन् समये करणभेदेन घण्टिकाचलनधूपदानप्रतिमादिवीक्षणस्तुतिपठनादीनां बह्वीनामपि क्रियाणां युगपत् प्रवृत्तिदृश्यत इति ॥ तदाह भाष्यकारः “गहणविसग्गपयत्ता, परोप्परविरोहिणो कहं समए । समए दो उवओगा, न होज, किरियाण को दोसो ॥३७३ ॥" [ग्रहणविसर्गप्रयत्नौ, परस्परविरोधिनौ कथं समये ? ॥ समये द्वावुपयोगौ न भवेतां क्रियाणां को दोषः] (योजितः पाठः) ग्रहणादेर्जघन्योत्कृष्टकालमानोपदर्शने भाष्यसंवादः एकसमये क्रियायौगपद्याविरोधे भाष्य- . संवादश्च ॥७९॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254